Wednesday, April 3, 2013

Sanskrit 'Tapasvini' Canto-2 (‘तपस्विनी’ महाकाव्यम्, द्वितीय-सर्गः/ डॉ.हरेकृष्ण-मेहेरः)

(तपस्विनी महाकाव्यम्, द्वितीय-सर्गः/डॉ.हरेकृष्ण-मेहेरः/
Sanskrit Tapasvini-Kavya, Canto-2)

*
TAPASVINI     
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 
*
Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = = = 
Tapasvini [Canto-2]
= = = = = = = = = = = = = = = = = = =  

[Canto-2 has been taken from pages 65- 80 of my Sanskrit ‘Tapasvini’ Book. 
For Introduction, please see : ‘ Tapasvini Mahakavyam : Ekam Aalokanam’
= = = = = = = = =

तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = = = =
द्वितीयः सर्गः 
 = = = = = = = = = = =

वाल्मीकि-मुन्याश्रमे
साम्राज्ये  मनोरमे
शान्ति-र्विराजते राजत्वं कुर्वती ।
महीरुह-राजि-प्रदत्तैः
सुच्छाया-शुल्क-वित्तैः
कोषं परिपूरयन्ती ॥

कुर्वन्ति तत्राकैतवं
तत् कर-दानं सर्वं
ते तरु-निचया अयाचितम्
स्वतनु-मानदण्डानुरूपं निश्चितम् ॥

प्रकृत्याः संयति निर्भीकाः
भवन्ति पुनः सैनिकाः
ते सर्व उर्वीरुहाः
घन-पर्ण-वर्म-समावृत-देहाः ॥

स्वीय-वपुषां पुष्टिं समेधयन्तः
वर्षाया व्यायामे ते सन्तः
आतपस्य विधाय पराजयम्
तस्यानयन्ति रश्मि-वैभव-निचयम् ॥

प्रवल-शीताक्रमणतः
राज्य-रक्षण-वृत्तये
आधान-कुण्ड-शिखारूपेण ततः
भवन्ति वह्नि-शराः पुनः कतिपये ॥

पराजिता प्रकृति-र्विज्ञाय समयं
विदधाति सुतरां सन्तोषातिशयम्,
समर्प्य तरु-निकर-करेषु स्वयं
फल-कुसुम-कोष-समुच्चयम् ॥

प्रत्येक-नीहार-बिन्दु-र्महनीयं        
शोषयति यतेरगस्त्यस्य गौरवम्,
गर्भ-मध्ये दधानः स्वयं 
तारका-रत्ननिकर-पूर्णं व्योमार्णवम् ॥

आहृत्य पारावार-गर्वं
तरु-मूलावाप-स्थित-जलानि
सम्पोष्य मण्डलमैन्दवं
निदधति स्म स्वगर्भे सकलानि ॥

सहसा तत्र प्रविश्य रुदितं
राम-रमणी-मुखोदितं
शान्ति-देव्यागारम्
प्राकम्पयद्  वारंवारम्  ॥

शान्तिः करुणावती
प्रविचलित-मानसा
स्वीयं वाहनमन्विष्टवती
रोदिनीमुद्दिश्य प्रयातुं तरसा ॥

मुनि-कुमार्यो निर्गत्य तस्मिन् समये
आसन् व्यापृतास्तत्त्वावधान-कार्ये
नूतन-तरु-लतानाम्
वायुवेग-वशादस्तव्यस्तानाम्  ॥ (१)

श्रवणेषु तासां नवः
प्राविशद् यदा कश्चिद् रवः
न्ययोजयन् निज-मानसं ततस्ताः
तं धृत्वा सम्यगभिज्ञातुं समस्ताः ॥

धृत्वापश्यत् तं मनः,-
न स कपोत-स्वनः
न वा पिक-तानः
न वा निक्वणो वीणोद्भूतः,
न वा कम्बु-ध्मानः
न पुन-र्बर्हिण-केका-विरुतः ।
स वै रमणी-कण्ठस्वरः 
झरति रुजा-जर्जरः ॥

बालानां तासां हृदय-स्यन्दनवरम्
समारुह्य शान्तिरचालयत् सत्वरम् ।
केतन-वल्कलाञ्चलः
आसीदुड्डीयमानश्चञ्चलः ॥

रोदनोर्मिं संपश्यन्त्या
चकितया स्थितं शान्त्या ।
तथापि नावहेला कृता मनागपि तया
गन्तुं तदन्तिकं त्वरया ॥

प्रस्थाय ततोऽनतिदूरे सकलाः
व्यलोकयन् मुनिबालाः ।
अपूर्वा कापि नारी प्रबलम्
वर्षति बाष्प-जलम् ॥

काचिदचिन्तयत् सविस्मयम्,
विचित्रा घटनेयम्
अत्र कानने सर्वथा ह्यसम्भवा
एतादृशी मानव-तनुभवा ॥

देवी काऽपि निलिम्प-निलयात्
सद्यः शाप-फलात्
धरातलं समागत्याधीरा
किमु पतितास्ति सशरीरा ?

अभ्रमातङ्गोपरि समधिष्ठिता
व्योम-धाम्नि भ्रमन्ती पुरन्दरी
देवेन्द्र-पुर-सुन्दरी
किमु वसुन्धरायां विलुण्ठिता ?

काप्यपरा व्यचिन्तयद् बाला,
किमु धृताश्रु-तरङ्गमाला
मेदिनीं  प्लावयन्ती
वर्त्तते जाह्नवी मूर्त्तिमती ?

अथवा करका यथा,
स्वर्गलोकाद् विगलिता
द्रवीभवति किमु क्रमेण करुणा सर्वथा
पृथ्वीतले पर-व्यथा-सन्तप्ता ॥ 

नोचिदियं  घन-कुन्तला,
पतनात् स्तनयित्नु-समेतायाः
तारायाः स्खलितायाः
वहतीयं धारा धरित्र्यां निरर्गला ॥

रोदन-रुतिरभविष्यत्
यदि प्रकम्प-प्रदायिनी
उच्येतास्माभिस्तत्
समागतेयं तोयद-सङ्गता सौदामिनी ॥

कौमुदी क्व तुषार-वर्षिणी
कोकिल-काकली-मुखरा ?
क्व च झिल्ली-राविणी
ग्रीष्मातप-ततिः प्रखरा ?

अभविष्यद् यदि वल्लकी तस्या हस्ते
तर्हि वक्तुं शक्यते,
वर्त्तते रोदन-रता देवी भारती
विष्णु-विरहादार्त्ता सती ॥

एवं विचिन्तयन्त्यः
सीता-सविधं मुनिसुताः प्रयातवत्यः ।
परन्तु प्रदातुं सान्त्वनाम्
नाभवत् साहसं बालानाम् ॥

प्रबल-प्रावृषि गाढ़ाविलानां
महानद्याः सलिलानां
निर्मलीकरणाय निर्मला-फलम्
कीदृशं  वा भवेदलम् ?

इबाङ्ग-तेल-तरङ्गिणीभिः  (२)       
सार्धं वर्धते धारा महानद्या यथा,
तथैव साकं मुनिकुमारीभिः
वृद्धिमलभत मैथिल्या अन्तर्व्यथा ॥

न किञ्चित् पृष्ट्वा सीताम्
कुमार्यो वेष्टितवत्यस्ताम् ।
नाशक्नुवन् गन्तुं ततः,
स्नेहस्तु चरण-शृङ्खला संवृत्तः ॥

तासां प्रशान्त-नेत्राणि केवलं
निरीक्ष्य विकलमधीरम्
तत्रामुञ्चन् प्रबलं
क्षुब्ध-हृदयानां  वेदनोर्मि-नीरम् ॥

अश्रु-प्लावितासु बालासु विलपन्ती
तत्र विह्वल-जीवना
आसीत् सीता सती
शोकाम्बुनि प्लवमाना ।
चक्रवातज-सीकरैः कृतावगाहने
राजीविनी-वने
किमु राजहंसी कूजति कलम्
आर्त्त-स्वरै-र्विकलम् ?

सखी काचिदविषह्य तत्
खेद-राजि-भरितैः
व्यथा-चञ्चल-लपितैः
वाल्मीकिं समुपेत्य न्यवेदयत् ॥

तात ! काननेऽस्मिन् काचित्
विलोक्यते योषित्
नवनीत-पुत्तली-तुला
समागत्य रोदिति यथा वातुला ॥

सम्बोधयन्ती वारंवारम् 
प्रियतमं भर्त्तारम्
स्मरति विविक्ते स्वमनसा
वात्सल्यं गुणराशिं स्वामिनः सा ॥

तस्या ललाट-देशे सन्दृश्यते
सिन्दूर-बिन्दुः सुन्दरः ।
वदनारविन्दं प्रति प्रतीयते
यथा राका-कलाकरः ॥

पाणि-युगले तस्याः संलग्ना
रम्य-रत्न-कङ्कण-राजी विराजते,
विषाद-पयोधि-पुलिने ह्यनिमग्ना
मृद्वी सा देदीप्यते ॥

दर-प्रफुल्लोत्पले वराटक-समाना
राजते सा कमल-द्युति-कम्य-परिधाना ।
नेत्र-नीरैस्तस्याः क्लिन्नम्
दृश्यते तद्वसनम् ।
स्पष्टं नावगम्यते सा किमु देवी           
अथवा वर्त्तते मानवी ॥

समाकर्णित-तद्-वचनः
मुनिसत्तमः समौनं निमीलित-लोचनः
न्यस्य काय-शीर्ष-ग्रीवाः सरलम्
मुहूर्त्तं समुपाविशत् केवलम् ॥

प्रतस्थौ पुनः समुत्थाय
चलत पश्याम इति कथयन् ।
अनेके मुनि-कुमारा अह्नाय
पश्चादेव तस्यागच्छन् ॥

अन्वगच्छन् सकौतुहलाः
आसन्नुटजे या मुनिबालाः,
सङ्गिन्यो भूत्वा सार्धं सख्या तया
समागतासीत् समाकारणार्थं या ॥

तदनन्तरं प्रातिष्ठन्
कुरङ्गाः कुरङ्ग्यश्च सशावकाः ।
तरोस्तरौ लम्फं प्रदाय तदाचलन्
कोकिला मयूराश्च सवकाः ॥

पवन-पारावारे चालयन्तः
स्वस्व-कलेवर-पोतं प्रस्थितवन्तः
नेत्र-रञ्जनाः खञ्जनाः कपोताः
शुकाः सारिका-समेताः ॥

वीर-वाहिनीयं शान्त्याः
तत्राभियानं समारब्धवती,
कृते सीता-शोक-शिलातत्याः
यथा भीषणा स्रोतस्वती ॥

महाधारा महानदी-महानद्याः समागत्य सजवम्
यदि प्रस्तर-समस्तं रामेश्वरस्थम्  (३)
समस्तकं ग्रसति,
किं विच्युतिं लप्स्यते
तत्राश्म-सर्वम् ?
प्रवाहः खलु कम्पिष्यते,
गति-स्खलनं भविष्यति
विघूर्णित-मूर्ध्ना नावाप्य पथम् ॥

अभियानेऽस्मिन् शान्तिदेव्याः सम्प्रति
ननु तादृश-दशा-भोगो न भविष्यति ?
संलग्ना भवतु सा
सन्निवेशित-मानसा,
सा वै लग्नास्ति नियता
स्वाभिमान-प्रमत्ता ॥

कियद्-दूरं चलित्वा समागतः
मुनीशो वैदेही-सकाशम् ।
अतिष्ठन्नपरे वेष्टयन्तः
अधः शाखासु चाध्याकाशम् ॥

शुभ्र-श्मश्रूकेशस्य विभूति-कलेवरस्य
सविधे सौम्य-मूर्त्ते-र्मुनिवरस्य
अशोभत सीता सती
चामीकर-गौर-वर्णा,
तले प्रालेय-कायस्य
शैलेश-हिमालयस्य
यथा नीरव-निश्चलं वसन्ती
तपस्विनी अपर्णा ॥

समुपयाते यतीशे
अवनीजया शोको विसर्जितः ।
चिन्ता-चक्रावर्त्तस्तस्या हृद्-देशे
संवृत्तः स्थगितः ॥

प्राह महर्षिः सीतां प्रति,
वत्से ! मया ज्ञातमेवास्ति ।
विरह-विपत्तिस्ते
विपरीतं प्रवहन्ती विद्यते ॥

स्वत एव गति-र्भवति
स्रोतस्वत्याः पारावारं प्रति ।
लङ्घति सा शिला-शैल-सङ्कट-सकलम्
समागच्छति मार्गे यद् विरुद्धमर्गलम् ।
पूर्व-क्लेश-समस्तं विस्मर्यते
तया तोयनिधे-र्मिलने ।
भेद-लेशोऽपि पुन-र्नावशिष्यते
तयोरुभयो-र्जीवने ॥

मध्ये दैव-वशात् समुत्थाय सपदि
ऊर्ध्वं भित्त्वा यदि
छिनत्ति वालुका-स्तूपस्तयोः
हृदयं ह्रादिनी-समुद्रयोः,
कल्लोलिनी तु न म्रियते ।
प्रियतमस्य कृते
वहति सा जीवन-भारं स्वयम्
ह्रदाकारं प्रसार्य स्व-हृदयम् ॥ (४)

अविकला घटितास्ति, जाते !
जगति सा दशा ते ।
चिन्ता त्वया मा कार्या वृथा,
दारुणं वै चिन्तायाः स्वरूपं सर्वथा ॥

श्वशुरस्ते सुहृद् मे,
तद्वत् तव तातः ।
निवस निस्सङ्कोचमस्मिन्नाश्रमे
संसारं तिक्तं मत्वाऽतः ॥

ममाश्रम-पदे सम्प्रति
चिन्ता काचिदपि ते नायास्यति ।
सम्भविष्यति यो नन्दनस्तन्निमित्तम्
मा कुरु चिन्तितमात्मचित्तम् ॥

निशम्य मुनीश-वाचं सती
प्रणिपत्य तत्पाद-युगलम्,
समुत्थाय मैथिली प्रमृष्टवती
स्वीय-चेलाञ्चलेन गण्डस्थलम् ॥ 

वीरप्रसू-र्भव वत्से !”, इत्थं सः
समुदीर्य शुभाशीर्भारतीम्
मधुरं प्रबोधयामास सतीम्
धरणिजां तपस्वि-कुलावतंसः ।
पुनरवोचत्,  पुत्रि ! एहि,
विलम्बं मा विधेहि ।
निवसन्ती कुमारी-मण्डले मनोरमम्
समलङ्कुरु वै ममाश्रमम् ॥

कुमार्यः ! सन्ति कानि कानि द्रव्याणि
यूयं वहत त्वरितं सर्वाणि ।
इत्थं श्रुत्वा मुनीन्द्र-निगदितम्
कन्यकाभिः ससम्मानं तत् सम्पादितम् ॥

समाकृष्य परस्परं
धृत्वा सत्याः सौम्य-पेटिकाः
परिवेष्टयन्त्यः सादरं
तां प्रस्थापयामासुः कन्यकाः ॥

दुर्गति-मस्तके वारंवारं
विधाय पादुका-प्रहारं
राम-हृदय-प्रीति-प्रतिमायाः पुरतः
धीरं प्रयातवान् वाल्मीकिस्तपोव्रतः ॥

अशोभत काषाय-वस्त्र-परिहितः
महर्षिरनूरु-सम्मितः ।
अदृश्यत पश्चाद् वैदेह-दुहिता
आदित्य-दीधित्युपमिता ॥

दीधितिरासीत् सा
दुःख-सागर-नीर-मग्ना विरसा ।
तत्रासीदनूरु-र्विराजितः
समुज्ज्वल-वर्ण-सज्जितः ॥

महामुनि-महासत्योः कथालाप-सर्वम्
साग्रहं निशम्य नीरवम्
आसन् विहङ्ग-निकराः
निषीदन्तस्त्यक्त-मधुस्वराः ।
विलोक्य तयोराश्रमाभिमुखं गमनम्
फुल्ल-चित्तास्ते सानन्दमकुर्वन् कलस्वनम् ॥

शान्ति-देव्याः खलु स्वयम्
संग्राम-जयघोषो वादितः सरयम् ।
सन्तोषः समभिव्यक्तो नृत्य-तत्परैः
मृग-शावक-निकरैः ।
मत्वा नवातिथि-लपनं स्नेह-पारावारम्
सतृष्ण-नेत्रैस्ते निरैक्षन्त वारंवारम् ॥

अशान्ति-पाथोनिधि-समुत्थिता
श्रीराम-रमणी स्वयम्
विजय-लक्ष्मीरूपा क्ष्मा-दुहिता
प्रयाति शान्ति-निलयम् ॥

वीथि-युगल-सज्जिताः
उभय-पार्श्वयोश्चलिताः
शत-शत-मिता मयूर-निवहाः
उच्चन्द्रकित-बर्हाः ॥

कोमलाङ्गा मातङ्ग-शावक-निकराः
स्व-करोद्धृत-पुष्कराः
प्रस्थितवन्तः सादरम्
दलबद्धा विकृष्य परस्परम् ॥

पत्र-निचया धृत-सून-स्तवकाः
द्रुमेषु दोलायमाना व्यशोभन्त ।
तत्र बक-कदम्बकाः
पङ्क्तिबद्धा धवल-ध्वजा व्यराजन्त ॥

मधुरमगायन् पिकवर्गा मङ्गलगीतम्
भृङ्गरुतै-र्विजयकम्बु-स्वनितं सुप्रतीतम् ।
मुहुर्मुहु-र्महीरुहेभ्यः समुड्डीयमानाः समस्ताः
शुक-सारिका  मुक्त-हस्ताः
प्रावर्षंस्तस्मिन् मार्गे
प्रसून-राशिं  पुरोभागे ॥

वन्दापना-प्रदीप-रूपा प्रज्वलिता
इतो गोधूलि-तारका ।
विरराज तस्मिन् मुन्याश्रमे सीता
श्रीरामचन्द्र-नेत्र-तारका ॥      

महर्षि-वाल्मीकि-निदेशेन
कुटीरे निधाय पेटिका-सकलम्,
प्राक्षालयत् कन्या काचन
वैदेही-वदन-मण्डलम् ॥

सत्याः पद-युगले काचिदपरा
अभवद् यदा सलिल-कलसावर्जन-तत्परा
सहसा तत्करादानीय स्वयम्
धौतवती वसुधा-पुत्री स्वीयं पादद्वयम् ॥

काचित् सतीमुपवेश्य तत्पश्चात्
पत्रासन-पीठिकायां कोमलायाम्
समादाय फलमूलादिकमददात्
तत्र पुरतः पत्र-स्थाल्याम् ॥

अनुकम्पा-नाम्नी वृद्धा तावत्
स्वाङ्के निधाय सतीं स्नेहभरम्
कर-तामरसाभ्यां प्रामार्जयत्
तस्या ललाट-कपोल-परिसरम्  ॥

आवर्ज्य समुज्ज्वलं निर्मलं
ममता-प्रपातात् स्नेह-जलं
सत्याः प्राणान् प्लावयन्ती
शीतल-विधानं कुर्वती
सा वक्त्रं निरीक्ष्य वारंवारम्
वचनमभाषत धीरं सुकुमारम् ।                                      

 वत्से ! त्वमसि समायाता
अद्य सौभाग्यादेव मत्सविधम् ।
राजराजेश्वरी त्वं सुजाता
तव स्वकीयं स्वर्ण-मन्दिरं निश्चितं
कृत्वा घनान्धकार-पूरितं
समुज्ज्वालितवती मम कुटीरमेवंविधम् ॥

आदिवसात् त्वया कन्ये !
किञ्चिदपि न भुक्तमिति मन्ये ।
आस्ते तनयस्ते गर्भे चलन्
चरण-प्रहारं कुर्वन् ।
अद्धि अद्धि वत्से !
का ते लज्जा मातृनिवासे ?
तव सखीजना एते
त्वत्प्रतीक्षा-रता विद्यन्ते ॥

अनुकम्पा तत्रैवमुक्त्वा
अर्पितवती नारङ्गी-कलिं विलुञ्चितावरणाम्,
एकामेकां कृत्वा
पक्व-कदलीं च कर्पूर-वर्णाम् ।
कुलक-निचयं भिन्न-बीजं
खण्ड-खण्डं  पुनः पनस-व्रजं
मधुर-स्वादं पिण्डखर्जूरम्
आम्रं च रम्यं रसपूरम् ॥

खाद वत्से ! खाद धीरम्
इति मुहु-र्वदन्ती मधुरम्
करे सत्या अददाद् भग्नं करक-बीजम्
मञ्जुलं  पुञ्ज-पुञ्जम् ॥

परिशेषे पुनर्द्वयं पुनर्द्वयम्
इति निगद्य राम-जायाम्
भोजयामास कोलिं स्वयम्
अष्ट-दश-प्रायाम् ॥

जननी-स्नेहसौख्यं वाल्य-जीवने स्वकीये
नावगतमासीत् सीतया ।
अद्य खलु तपोवने वाल्मीकीये
तदवगतं सम्यक्‌तया ॥

फलाशनस्य पश्चात्
कृत्वाचमनं स्व-लपने
सा तापसी-निदेशात्
समुपाविशत् काष्ठासने ॥ (५)

करे वैदेह्यास्तदनन्तरं
कोरङ्गी-फलमर्पितं कयाचित् कन्यया ।
तद् गृहीत्वा सादरं
वदने पातितं सत्या सुलपनया ॥

कयाचिदपरया
सुकुमारं शुष्क-नीवार-नालमानीय
धीरं प्रस्तुता शय्या
तत्र मृगाजिनं प्रसार्य ।
सविधे सीतायास्तत्रातिष्ठतां सख्यौ ।
अन्यः कन्याजनः स्वस्व-वासं प्रतस्थौ ॥

= = = = = = = =
पादटीका :
(१) इतः प्राक् प्रखर-पवन-प्रवाह-विषयः कथितोऽस्ति ।
(२) इब, अङ्ग, तेल इत्याख्याः नद्यः सन्ति महानद्याः उपनद्यः ।
(३) रामेश्वरम् = सम्बलपुर-समीपे महानद्याः भयङ्करं  विषम-स्थानमेकम् ।
(४) ओड़िशायाः चिलिका-ह्रद-सङ्गतानां नदीनामवस्था अस्य निदर्शनम् ।
(५) गर्भवतीत्वात् सीताया उपवेशनार्थमुच्च-स्थानमावश्यकम् ।
 * * * 

[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉहरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्२७/२८ शक्ति नगरदिल्ली-११०००७भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः
 = = = = = =

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :

* * * * 

No comments:

Post a Comment