Wednesday, May 8, 2013

Sanskrit ‘Tapasvini’ Canto-9 (‘तपस्विनी’ महाकाव्यम्, नवम-सर्गः/डॉ.हरेकृष्ण-मेहेरः)


तपस्विनी महाकाव्यम्, नवम-सर्गः/डॉ. हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Canto- 9)

TAPASVINI     
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 
*
Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = =   
Tapasvini  [Canto-9] 
= = = = = = = = = = = = = = = =

[Canto- 9  has been taken from pages 188- 204 of my Sanskrit
‘Tapasvini’ Book. 

For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’
= = = = = = = 

तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = = = = = =
नवमः सर्गः 
= = = = = = = = = = = = =

गर्भभारः सत्याः प्राप्त-समय-क्रमः
विलङ्घ्य गुरुतरत्वं सञ्जातो गुरुतमः ।
बभूव दुष्करमुत्थानं कृतं चेदुपवेशनम्,
उत्थाने कृते दुर्वहं संवृत्तं स्वीयापघनम् ॥

समयेऽस्मिन् भविष्यति
सत्याः क्लेश इति चिन्तया
व्यनाशि ग्रीष्मो झटिति
प्रावृषा समागतया ॥

प्राणेषु सावसादेषु शक्ति-प्रदानाय
चतुर्दिशासु जीमूत-पटली समुदियाय ।
ऊर्ध्व-दिशायामवरुध्य तपनातपं प्रबलम्
व्यतनोत् सा चन्द्रातपं श्यामलम् ॥

चन्द्रातप-द्युतिः शम्पाच्छटाभि-र्विशेषम्
चकार चकितं जनानां नेत्र-निमेषम् ।
सज्जीकृत-निज-नीलवेणीभिः
आशा-रमणीभिः
तासु समलङ्कृताः शुचयः
वक-मौक्तिक-पङ्क्तयः ॥

समुद्धृत्य रत्नाकरतः
रत्न-रेणुराशिं विपुलम्
अभूषयन् दिगीश्वराः स्वतः
तोरणं सुमञ्जुलम् ॥

स्वार्थसाधन-वशात्
ह्रियं विहाय मानसात्
पूर्वाशाधिपतिः पुरन्दरो न्यगदत्,
 ममैव धनुस्तत् ॥

रत्नाकरेशः प्रतीची-दिगीश्वरः
प्रोवाच तदसहन-परः,
 मम रत्नै-र्निर्मितं तत् कार्मुकम्
स्थास्यति ममान्तिकम् ॥

साधु-धर्मपालकैः
अन्यै-र्दिशानायकैः
उभयोः सविधे निर्धारितः
क्रमान्वयेन कार्मुक-न्यासस्ततः ॥

तोयमावर्जितं प्रावृषा मूर्ध्नि वसुधायाः
तनया-यातना-ताप-सन्तप्तायाः ।
तटिनी-सरसी-कानन-पर्वत-निर्विशेषम् 
शीर्षेषु सर्वेषां सलिलमावर्जितं सहर्षम् ।
व्यक्तमभूद् रसायाः पुलकं प्रचुरैः
कदम्ब-प्रस्फुटनैस्तृण-शस्याङ्कुरैः ॥

अम्भोमयं बभूव रसाया उरस्थलम्,
प्रावहत् तमसा विलङ्घ्य कूल-युगलम् ।
समवलोक्य जनक-सम्भवाम्
प्रत्यासन्न-प्रसवाम्
समजनि हृदये द्वयोः
उच्छलितमिवानन्दं तयोः ॥

समस्ताः सविपिना महीधराः
समुज्झित-हृद्गत-वैश्वानराः
अजायन्त प्रफुल्ल-लपनाः
सम्मार्जित-निजापघनाः ॥

कण्टक-दुर्ग-निकेतना
कण्टक-तनौ सती सुस्मितानना
व्यक्तमकरोत् केतकी ध्रुवम्,
अयि देवि वैदेहि !
“ विपत्ति-विपिन-विबद्धा त्वम्
स्वान्ते न चिन्तां धेहि  ॥

कण्टक-काननेऽस्मि स्वयं कण्टकिता
सौरभ-सम्भारादहं विश्व-वन्दिता ।
तापसी-विपिने तपस्विनीभूय त्वमार्या
मनस्विनि ! भविष्यसि त्रिभुवन-पूजनीया ॥

दूषणं जन-नयनजं किं करिष्यति
यदा स्वीय-गुणः स्वर्गीयं विभूषणं भाति ?
न भवेद् यदि मधुकरस्य श्रद्धा
मयि कण्टकं पश्यतः,
किमु सौरभस्य स्पर्द्धा
मया परिहरिष्यते ततः ?

प्रस्फुटिता कृष्णचूड़ा रामणीयकं दधती
स्ववेशेन मानसं लोचनानि प्रलोभितवती ।
स्थित्वा गजदन्त-प्रसूनं वसन्त-समयात्
प्रावृषे पुष्प-वार्त्तामददात् ॥

कमल-मल्लिका-कुटजानां विषयस्ततः
तत्रात्यन्तं प्रीतिदायकः सञ्जातः ।
रत्नानि मत्वा तत् त्रयम्
अकारि प्रावृषा विशेष-यत्नो नित्यम् ॥

परन्तु विधातु-र्यो नियमः,
तल्लङ्घनार्थं को वा क्षमः ?
स्वशक्या प्रावृट् तत् त्रयम्
रक्षितुमक्षमा बभूव स्वयम् ।
त्रय एव निपतिताः
कराल-काल-कवलिताः ॥ 

अस्या घटनातः
सत्या ज्ञेयः सम्प्राप्तः ।
साधुजनो भवत्याजीवनम्
कदापि नावज्ञा-भाजनम् ॥  


समनुष्ठितो यूथिका-लताभिः
पुष्प-भूषणैः सांवत्सरिकोत्सवः समस्ताभिः ।
सत्याः सीतायाः स्वान्त-विनोदन-निमित्तम्
किमु तत्र सुरभि-भवनं विनिर्मितम् ॥

यूथिका-रजनीगन्धा-सुम-सार्थं
हस्ते मस्तके च दधाना
श्रावणी विभावरी वारिद-नीलाम्बरा
सत्याः पर्णशालाजिरे दण्डायमाना
तद्वेदनाया अपनोदनार्थं
तत्रासीदुज्जागरा ॥ 

प्रसव-लक्षणं सीतायाः प्रकाशितम्
अभवत् तत्रागत्य प्रतिमुहूर्त्तम् ।
सत्याः क्लेशं वहन्तः
अत्यन्तमार्त्त-स्वरेण रुतवन्तः
अदूरे सकलाः
दर्दुरास्तत्र विकलाः ॥

सत्यास्तृषां नीत्वा तदाम्बरे वारम्
वारिदमयाचत चातको वारंवारम् ।
स्थिताः स्थविरास्तापसी-जनाः
सतीसन्निधौ समयोचित-विधान-लग्नाः ॥

निशीथिन्यां निशामणि-कान्ति-हारकौ
अजायतां यामलौ सत्याः कुमारकौ ।
तनुजयो-र्ज्योतिः सौदामिनी-द्युति-सङ्गतम्
आलोकैः प्रकाशयामास दशदिक्-समस्तम् ॥

चकार तोपध्वनिं महेन्द्रो महानन्द-मनाः,
अशनिरिति तं न्यगदन्नजानन्तो जनाः ।
दिगङ्गनानां हुलहुलि-ध्वनिभिः सार्द्धम्
घन-स्तनितं लीलया मिलितं सन्नद्धम् ॥   

वनानि चावनिधर-समस्ताः
प्रभूत-प्रसूनमवर्षन् हर्षिताः ।
अभवन् नृत्य-निरताः सपुष्करिण्यः
केदार-सङ्गास्तरङ्गिण्यः ॥

सती-कुमार-दर्शनाभिलाषिणः
जीमूता अस्खलन् धारारूपिणः ।
स्रोतस्वत्यः सत्वरं तीरं समुत्थिताः
दर्शन-लुब्ध-हृदया उत्कण्ठिताः ॥

विहाय पारावारं मीनाः पुरस्सराः
सार्धं तटिनीभिरभवन् नृत्यपराः ।
ह्रद-सरोवर-क्षेत्र-जल-पृष्ठेषु समुत्थिताः
अनृत्यन् सर्वे मीनाः प्रमुदिताः ॥

समतिक्रम्य सर्वान् सत्वरं
कुमारयो-र्दर्शनार्थमुत्सुकः
आरुरोह ताल-तरु-शिखरं
मत्स्यः केउँ-संज्ञकः ॥

महर्षिणा वाल्मीकिना
तत्र समागम्य त्वरितम्
कुमारयोः सन्दर्शनं कृतम् ।
भावितं मुनिना,
इमौ ग्रहौ गुरु-भार्गवौ
एकत्राश्रम-गगने समुदितौ द्वौ ।
प्रभात-सन्निभं महर्षि-हृदयम्
प्रहर्ष-पुष्पैरभवत् सौरभमयम् ॥  

करे धृत्वा कुश-गुच्छमभिमन्त्र्य तम्
अकरोदग्रमधश्च मुनीशो द्विखण्डितम् ।
करयोरनुकम्पायाः समर्प्य सत्वरम्
अभाषत मुनिसत्तमः सुमधुरम्,
 देवि ! पुत्रयोः सम्मार्जनं विधीयताम् ।
अग्रभागः प्रयोज्यताम्
तनु-सम्मार्जनार्थमग्रजस्य,
अधोभागश्चावरजस्य ॥” 

मुनि-शेखरानुज्ञया
तथा सम्पादितमनुकम्पया ।
भूत-विनाशिनी रक्षाऽपि शिशु-हिता
तदनुसारं सुविहिता ॥

सम्मार्जितं कुश-लव-योगात् तनु-युगलम्
अशोभत शाणित-रत्नादपि समुज्ज्वलम् ।
यथा वैश्वानरः
तृणराजी-संयुक्तः,
यथा वा नवो भास्करः
पाथोधि-कल्लोल-विमुक्तः ॥

जानकी यदाऽपश्यत् 
पुत्रयो-र्युगल-वदनम्,
हृदये सहसाऽभवत् 
सुख-दुःखयोरागमनम् ॥

न्यगादि सुखेनैतत्,
 रवि-राकेश-सङ्काशौ यामल-सुतौ
निज-गर्भे यया धृतौ,
धन्या धन्या सा धन्या शतवारम् ।
अतोऽधिकं सौभाग्यं सारम्
नास्ति संसारे किञ्चिदन्यत् ॥

दुःखेन कथितम्,
इमौ राजसुतौ
अद्य स्यातां निश्चितम्
मणिमये राजनिलये विभ्राजितौ ।
नरेन्द्र-हृदयानन्दनौ
दीन-दुःखिजन-दारिद्र्य-भञ्जनौ ॥

अद्याभविष्यन् नगरवासिनां नराणाम्
वित्त-रत्न-वस्त्राभरणादि-समवाप्तिः ।
मङ्गल-नादैः परिपूर्णत्वं पुराणाम्,
मङ्गल-वाद्यैश्च व्योम-धाम्नः परिव्याप्तिः ।
भाग्यदोषात् तापस-पुत्ररूपेण तौ
अहो ! तापस-निवासं समाश्रितवन्तौ ॥

सती-लोचन-युगात्
नीत्वा नीर-धार-युगलम्
दुःखं निरगात्
प्रदाय तनय-स्नेहं विमलम् ॥

सत्या हृदयं ततः संवृत्तम्
नन्दन-रूपे शुद्ध-सुख-परिपूरितम् ।
अन्यत्र नेत्र-चालनाय पुत्रद्वयादृते
अभिलाष-लेशोऽपि नाजनि तस्याश्चित्ते ॥

रङ्गो मातृ-नेत्रज-स्नेह-समुज्ज्वलः
भृशं रञ्जित-कुमाराङ्ग-युगलः
समानयत् तस्मिन् नयन-द्वये प्रतीतिमेवम् ,
‘ तत्राविर्भूतौ नव्यौ विभाकर-निशाकरौ ध्रुवम् ।
सती-मानसे सिंहासनं स्थापयता
आनन्देन प्रादर्शि स्वीय-सार्वभौमता ॥

कुमारयो-र्नाभिच्छेदन-क्रिया
सपदि सम्पादिता समुदमनुकम्पया ।
ततो मन्त्रपूत-पयोभिः स्नपयित्वा युगलम्
विधानं समापितं सकलम् ॥

समालोक्य कुमार-युगलमितः
तापसी-मण्डलीभिस्तत्र रचितः
कोलाहलः सानन्द-गद्गदम् ।
दलबद्धा मुनिकुमाराः समस्ताः
अनृत्यन् सङ्कीर्त्तन-निरताः
समुच्चार्य श्रीराम-नाम-पदम् ॥

दुर्धर्ष-दुर्जय-लवणासुर-मारणाय शौर्यवान्
शत्रुघ्नः स्वकीय-यात्रायने
दैवात् तस्यां निशीथिन्यामवस्थितवान्
वाल्मीकि-मुन्याश्रमे पावने ।
आश्रमस्य तत्रानन्द-नादे शत्रुघ्नः
बभूव स्वयमानन्द-नद-निमग्नः ॥  

प्रोत्फुल्लं सप्रशंसं सतीं ततः
वीरवरः प्रोवाच,
अयि पूज्य-मातः !
 त्वमसि रघुवंश-पावनी ।
सर्वंसहा ते जननी,
अतः स्वयमसि सर्वंसहा च ॥

वसुधासुते ! सौभाग्य-वशादेव नः
न्यधायि वसु गर्भे त्वयात्मनः ।
अद्य रघुवंशस्य कृते
यद् वसु दत्तवत्यसि,
तदवश्यं विराजिष्यते
अयोध्या-राजश्रियः शिरसि ॥

मुनि-कुमाराणामानन्द-कोलाहले
तस्मिन् कानन-स्थले
कृतं योगदानं दलबद्धैः कुरङ्गैः,
सार्धं बहुविधै-र्विहङ्गैः ॥

श्रावणी वार्षिकी भयङ्करी
मुहूर्त्तवत् समवसिता शर्वरी ।
लवणासुरमुद्दिश्य सुमित्रा-तनयः
अग्रसरो बभूव मुनिमभिवन्द्य सविनयः ॥

द्रव्यैः सन्तोषं विधातुं वनस्थानां
तापस-तापसी-जनानां
सत्या जानक्याश्चेतः
अभवदभिलाषि स्वभावतः ।
किन्तु कुतो वा वित्तं तस्या अभीप्सितम् ?
काननं खलु तया समाश्रितम् ॥

कौमुदी स्वयं कामयते
तृप्तिं प्रदातुं जगते ।
परन्तु व्योमधाम्नि चपलम्
समुपगतं बलाहक-पटलम् ॥

भवनादागता यदा जनक-तनया,
भावनासीत् तदा तस्या अह्नाय
काननात् प्रत्यावर्त्तनाय ।
मुनिसुतानां कृते समानीतास्तया
आसन् केचिदुपहाराः
वस्त्र-समेतालङ्काराः ॥

सविनयं सलज्जा
वण्टयित्वा तान् पदार्थानात्मनः,
समतोषयज्जनकजा
तापस-तापसी-जनानां मनः ।
तेषां हृदय-पारावारः
बभूव प्रसारितानन्द-तरङ्गवारः
मृगाङ्क-किरणानिव तान्
समधिगत्य पदार्थान् ॥

तया सञ्चितान्यासन् यानि
फलानि सतृण-धान्यानि,
तदा सर्वाणि समर्पितानि
सकुरङ्गेभ्यः शकुनेभ्यस्तानि ॥

परस्परं समाकर्षन्तः
ते सर्वे भुक्तवन्तः ।
केचिद् विहङ्गमाः प्रमुदिताः
धृत्वा चञ्चूषूर्ध्वमुड्डीय चलिताः ॥

सारिका-शावकाः कुलाये
आसन् विवृत-वदना ये,
तेभ्यो भोजनं तत्
जननी समवण्टयत् ॥

कुर्वन्तः केका-स्वनममन्दं
मयूर-मयूरी-निकराः
ताण्डवं व्यरचयन् सानन्दं
पादपोपरि नृत्यपराः ॥

द्वीप-द्वीपान्तरेषु प्रचारिता
शुभवार्त्ता सा भ्रमता परभृता ।
निवेदयितुं तं शुभसन्देशं कैलासाय
सानन्द-नादमव्रजद् राजहंसः ।
गौरी-मानसे प्रत्यय-जननाय
पत्रं धृतवान् मृणाल-किसलयं सः ॥

समवाप्य तां
सुमङ्गल-वार्त्तां
परम-प्रमोद-परिपूर्ण-हृदया,
निवेद्य महादेवाय
शैलं कैलासं विहाय,
सती-सीतायाः कर-युगतः
पूजार्चना-स्वीकाराभिलाषिणी
अधिष्ठिता षष्ठीदेवी-रूपिणी
समागच्छद् गौरी स्वतः
वाल्मीकि-मुन्याश्रमम्,
व्योम्नि कादम्बिन्या समम्
इरम्मद-व्याजेन त्वरया ॥

सप्त-तापस-कन्यानां
कलेवरेषु विराजमाना
सप्तमातृका-समाना,
साग्रहं गृहीत्वा सती-करार्पितार्चनां
षष्ठ-वासरे सा वर-हस्ता
विध्वस्तारिष्ट-समस्ता
निरगमद् मृगेन्द्र-बलं प्रदाय
समङ्गलं कुमार-युगलाय ॥

एकविंशति-दिवसः क्रमेणोपनीतः
नामकरणावसरः पुनीतः ।
सती-सुत-नाम-श्रवणाभिलाषुकाः
समागच्छन् स्वर्गधामतो वृन्दारकाः ।
देवीमण्डली तदौत्सुक्यात्
पङ्क्ति-बद्धा तानन्वगात् ॥

शुभागमन-निमित्तं शरदः
आसीद् व्योम्नि मार्गं मुञ्चन् नीरदः ।
भास्कर-किरणैः समं
मार्गेण तेन समागताः
लीलया सविभ्रमं
ज्योतिर्मय-स्यन्दनस्थाः समस्ताः ॥

आगम्य मुन्याश्रमस्य प्रसून-प्रचयेषु
मानस-विमोहनं सौरभरूपं दधानाः
अमराः समुपाविशन् 
प्रकाशित-स्वर्गीय-सौन्दर्याः
प्रस्फुटन-व्यपदेशेन स्मिताननाः ।
तापस-तापसीनां हृदयेषु
सम्प्रविश्य तदाऽभवन्
केचिद् वा परमानन्दमयाः ॥

महर्षि-वाल्मीकि-निदेशात्
तापसीगण-समेतास्तापसाः
द्विगुणितानन्दित-मानसाः
प्रविश्योपवनं समन्तात्
समाहृत्य नानाप्रसूनानि नव्यपत्रनिकरम्
व्यरचयन् मण्डपं चारुतरम् ॥

यामे प्रथमे निशीथिन्या अदृश्यत
प्रदीपमालाभिराश्रम-पदं मनोहरम् ।
तैलमैङ्गुदं प्रदीपैः समाकृष्यत
हस्तेभ्यस्तापसानां प्रचुरम् ॥

चतुर्दिशासु कुसुमिताः
द्रुम-व्राताश्च व्रततयः,
हसितास्याः संवृत्ताः
समवाप्त-प्रकाशोर्मयः । 
आसीत् स समयः
महोत्सवः सुमनसाम् ।
वृद्धिं भजते स्म विस्मयः
रजनीगन्धानां सर्वासाम् ॥ 

पाथोनिधिषु यथा दुग्ध-सागरः
वृन्दार-वृन्दे यथा पुरन्दरः
हिमगिरि-तुङ्ग-शृङ्गेषु सुन्दरः
शोभते गौरीशङ्करो यथा,
व्यराजत मुनिमण्डले वाल्मीकिस्तथा
मण्डप-मण्डितासनस्तपस्वि-प्रवरः ॥

छाया-संज्ञे यथाश्विनी-कुमारौ,
धृत्वा स्वीये कर-कमले यामल-कुमारौ
समागच्छतां मण्डपं सती चानुकम्पा ।
आविर्बभूव शोभा तत्र सदर्पा ॥  

कृष्णत्रयोदशी-शशिनं निकषा प्रभाती
उदितास्ति तारका शोभिताकाशा । 
तयोः प्रतिबिम्बं सरोवर-गर्भे बिभ्रती 
विद्यत इव सगर्वा पूर्वाशा ॥  

प्रसन्नास्यास्तापस-कुमार्यः
ऋजु-हृदयाः सती-सहचर्यः
सतीदत्त-वस्त्रैरावृत-कलेवराः
समुपाविशन् सत्याः समीपे प्रमोदिन्यः ।
उषाप्रदत्तै-र्नव्यकिरणै-र्विभास्वराः
उषां निकषा यथा सरोजिन्यः ॥     

वेद-विध्यनुसारं सम्पन्ना
देवानां कृते समाराधना ।
शङ्ख-ध्मान-सङ्गतः
शिङ्गा-ध्वनिः प्रसृतिं गतः ॥

ततो ज्येष्ठ-कुमाराय
शुभाशीर्वचनं प्रदाय
अवदत् प्रसन्न-वदनो मुनीशः,
कुशाग्र-सम्मार्जितोऽयं तनयः
भविष्यति कुशाह्वयः
वैरि-वारणवराणामङ्कुशः ।
तद्वत् कनिष्ठ-कुमारस्य नाम महर्षिणा
लव इति दत्तं महामनीषिणा ॥

रामनाम-ध्वनि-र्मुनिभिरुच्चारितः
मुरज-मन्दिरा-खञ्जनी-वादन-सहितः ।
तापस-कुमारीभिस्तत्र परिवेषिताः
वीणावादन-विभूषिताः
ललित-कण्ठैः पीयूषाधिकाः
सुमधुरा गीतिकाः ॥ 

सुरभि-स्वरूपा देवा देव्यः समस्ताः
तत्रानृत्यन् परमामोद-निरताः ।
चतुर्दिशासु स्थित्वा हरिण-हरिणीगणाः
तत्र व्यलोकयंश्चकितेक्षणाः ॥

मुन्याश्रम-सङ्घटिते
महानन्द-कोलाहलोत्सवे पुनीते
प्रतिध्वनि-व्याजेन
कृतं योगदानं काननेन ॥

पादप-समेताः समस्ता लताः
अभवन् वा सङ्गीत-रताः,
गर्वमङ्गीकृत्य विद्याधराणाम्
विद्याधरीणां च गान-प्रवराणाम् ॥

आनन्दै-र्गतः समुज्ज्वलतामाश्रमः,
परन्तु सत्याः सीताया आस्य-कैरवे तमः
अवर्त्तत केवलं राम-चन्द्राद् ऋते ।
अमावस्या खलु पर्वभूता तस्याः कृते ।
अन्धकारो व्यवर्धयत्
महीकन्याया महिमानम्,
अन्धकार-कारणादेव तत्
कौमुदी समादर-स्थानम् ॥

अशोभत नन्दन-रत्नं दधती
गभीर-रत्न-कन्दरः सुमेरुरिव सती ।
ऋषि-देवै-र्विहितानन्द-महोत्सवैः
गौरवं सत्याः प्रवर्धितं सम्मिलितैः सर्वैः ।
महाजनानां राजते
रीतिरियं र्नैसर्गिकी,
सुपात्रेभ्यः सम्मान-दानेन जायते
तेषां सम्प्रीतिरान्तरिकी ॥

परिशेषे महर्षिः कल्याण-कामनां विधाय
शुभाशीर्वादं दत्तवान् कुमार-युगलाय । 
तापस-हृदय-पद्मासनेषु वसन्तः
देवास्तथास्तु-वचनमुच्चारितवन्तः ॥

कानन-द्रुम-व्रतती-व्राताः सुमन्द्र-निनदाः
तथास्तु व्याहरन् सकलाः सानन्दाः ।
न्यगदन् दिग्-विदिग्‌भ्यो दिगीश्वराः
तथास्तु’-वचनमुच्चैः सुस्वराः ॥
= = = = = = =

(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे नवमः सर्गः)
= = = = = = =
  
[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्तिनगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = =

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :

* * * *

No comments:

Post a Comment