Adhunika- Samskrita-Sahityam Prati 
Kavi-Harekrishna-Meherasya  Avadanam 
(Sanskrit Research Article by : Dr. Jayanta Kumar Tripathy) 
Published in Sanskrit Research Journal 'Sraddha' (ISSN 2321-273X)
Published in Sanskrit Research Journal 'Sraddha' (ISSN 2321-273X)
* * * * * 
आधुनिक-संस्कृत-साहित्यं प्रति 
कवि-हरेकृष्ण-मेहेरस्य अवदानम्
कवि-हरेकृष्ण-मेहेरस्य अवदानम्
= = = = = = = = = = = = = = = = = = = = = = =
        * डॉ. जयन्त-कुमार-त्रिपाठी    
उपक्रमः
    “संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः”  इति काव्यादर्शकारस्य दण्डिनः  वर्णनायां संस्कृत-भाषा देवभाषा इति विशेषत्वमर्हति । संस्कृतं नाम भाषा-जननी वैदिक-कालादारभ्य साम्प्रतिकयुग-पर्यन्तं निरन्तरं गतिशीला प्रगतिशीला च अग्रेसरति । सा गीर्वाण-वाणी यादृशी प्राचीनतमा, तादृशी आधुनिकतमाऽपि । समयानुसारं बहुबाधा-विघ्न-समूहैः पीड़िता अवहेलिता सती सुरभारती साम्प्रतिक-काले अधिक-दीप्यमाना विराजते । अस्माभिः विद्यालयेषु महाविद्यालयेषु विश्व-विद्यालयेषु च संस्कृत-विषये यानि यानि पठितानि, आधुनिक-काले तैः सार्धं नूतनानि बहूनि काव्यादीनि दृष्टि-पथमवतरन्ति । काव्यादि-रचनासु पुरातन-शैल्या साकं नव्या आधुनिक-शैली अपि सारस्वत-साधनायां स्वीकृतास्ति । साहित्यस्यापि  जायते युगानुसारं परिवर्त्तनं  किञ्चित् । संस्कृतं  केवलं रक्षणशीलं साहित्यं  न भवति । साम्प्रतिके    संस्कृत-साहित्ये   काव्य-कृतीनांनैके विभावाः दरीदृश्यन्ते । पुरातन-साहित्यवत् सम्प्रति विरच्यन्ते महाकाव्यानि, खण्ड-काव्यानि, गीति-काव्यानि, स्तोत्र-काव्यानि, गद्य-काव्यानि, नाटकानि, कथाश्चेत्यादीनि । एतैः सार्धं नव्य-शैल्या प्रणीयन्ते नूतनच्छन्दोभिः नव्य-काव्यानि, नूतन-मौलिक-च्छन्दोभिः नाना-गीति-काव्यानि, नूतनशैल्या नाटक-वीथी-नाटकानि, हास्य-व्यङ्ग्य-काव्यानि, उपन्यासिका- उपन्यास-रचनानि, नव्यरूपेण कथा-क्षुद्रकथाश्च । संस्कृतभिन्न-च्छन्दोभिः कृतानि विविधानि गजल-गीत-काव्यानि, हाइकु-सिजो-तान्का-प्रभृति-विदेशीय-च्छन्दोभिः संस्कृत-कविता-काव्यादीनि च लोचन-गोचराणि भवन्ति । अनेन परिलक्ष्यते यत् आधुनिक-रुच्यनुसारं प्रवर्त्तते जनानां चित्तहारकं साम्प्रतिकं संस्कृत-साहित्यम् ।  
    आधुनिक-संस्कृत-साहित्ये अनेके कवयः राजन्ते यथा, अभिराज-राजेन्द्र-मिश्रः, भास्कराचार्य-त्रिपाठी, श्रीनिवास-रथः,हरिदत्त-शर्मा, गोविन्दचन्द्र-पाण्डेयः, राधावल्लभ-त्रिपाठी, रमाकान्त-शुक्लः, पुष्पा-दीक्षितः, हर्षदेव-माधवः, बनमाली-बिश्वालः चेत्यादयः । आधुनिक-संस्कृत-कविषु हरेकृष्ण-मेहेरः काव्यकविता-गीति-प्रभृति-रचनाप्रतिभया निज-स्वतन्त्र-शैल्या विशिष्टमेकं स्थानमधिकरोति । 
कवि-परिचयः 
     हरेकृष्ण-मेहेरः ओड़िशायाः नूआपड़ा-जिल्लान्तर्गते सिनापालि-ग्रामे ख्रीष्टाब्दे ०५-०५-१९५६ इति दिनाङ्के कवि-परम्परा-वाहिनि परिवारे लब्धजन्मा । तस्य पितामहः कवि-मनोहर-मेहेरः पश्चिम-ओड़िशायाः गणकवि-रूपेण लोके चर्चितः । पितुः कवि-नारायणभरसा-मेहेरस्य मातुः सुमति- देव्याश्च अङ्कं मण्डयन् सुपुत्रः सञ्जातः हरेकृष्णः । एक-साहित्यिक-परिवारस्य उत्तम-दायादो हरेकृष्ण-मेहेरः ।
   कवि-परम्परायां हरेकृष्ण-मेहेरः सर्जनात्मक-प्रतिभावान् विशेषाभिरुचि-सम्पन्नः भाषा-साहित्य-सङ्गीतकलासु । स संस्कृताध्यापकः, कविः, गवेषकः, समालोचकः, प्राबन्धिकः, गीतिकारः, स्वर-संयोजकः, सफलानुवादकः सुवक्ता च । अनेक-भाषाविदा हरेकृष्ण-मेहेरेण कृताः संस्कृत-हिन्दी-आङ्गल-ओड़िआ-कोसली-भाषासु नैकाः मौलिक-रचनाः अनुवादाश्च सहृदय-समाजे प्रथिताः विद्यन्ते । जातीयान्तर्जातिक-स्तरेषु विभिन्न-मुखपत्र-पत्रिकासु तस्य लेखाः प्रकाशिताः सन्ति । तेन विश्वसंस्कृत-सम्मेलनादिना सार्धम् अनेकेषु जातीयालोचना-चक्रेषु कवि-सम्मेलनेषु च सक्रियं योगदानं कृतम् । संस्कृतस्य आधुनिकी-करण-दिशायां सरलीकरण-दिशायां च स सदैव प्रयत्नशीलः । स्वोद्भावितैः मौलिक-च्छन्दोभिः आधुनिक-नवगीति-रचना स्वरलिपि-स्थापनं परिवेषणं च तस्य कवि-प्रतिभायाः विशेषत्वम् । उत्कल-विश्वविद्यालय- सागर-विश्वविद्यालयादिषु प्रस्तुत-शोधग्रन्थेषु तस्य कृति-विषये शोधात्मक-लेखाः अन्तर्भुक्ताः सन्ति । आकाशवाणी-दूरदर्शनादिषु तस्य लेखाः कविताः गीतयश्च प्रसारिताः । आन्तर्जातिक-जीवनी-ग्रन्थेषु तस्य परिचयात्मकं विवरणं प्रकाशितं प्राप्यते । ओड़िशा-साहित्य-अकादम्याः स  पूर्वतन-सदस्यः । साहित्यिक-सांस्कृतिकानुष्ठानैः  अनेकैः सार्धं सक्रिय-रूपेण सम्पृक्तो विद्यते ।
    अनेक-संस्थानां प्रदत्तैः साहित्यिक-सम्मानैः हरेकृष्ण-मेहेरः सभाजितोऽस्ति । तस्मै प्रदत्त-सम्मानेषु गङ्गाधर-सम्मानः(पाटनागड़, २००२), गङ्गाधर-सारस्वत-सम्मानः (बरपालि, २००२), जयकृष्ण-मिश्र-काव्य-सम्मानः (कटक, २००३), विद्यारत्न-प्रतिभा-सम्मानः (भुवनेश्वर, २००५), अवार्ड् अफ् एप्रिसिएशन् (जयदेव-उत्सवः, नवदिल्ली, २००८), अशोक-चन्दन-स्मारक-गङ्गाधर-सम्मानः (बरपालि, २००९), आचार्य-प्रफुल्लचन्द्र-राय-स्मारक-सम्मानः (एकाडेमी अफ् बेङ्गली पोएट्री, कलकाता,२०१०), हरिप्रियामुण्ड-स्मारक-गङ्गाधरमेहेर-सम्मानः (बरपालि, २०१०), नीलमाधव-पाणिग्राही-सम्मानः (सम्बलपुर-विश्वविद्यालयः,२०१०), विश्व-संस्कृतदिवस-सम्मानः (भवानीपाटना, २०१३), वाचस्पति गणेश्वर-रथ- वेदान्तालङ्कार- सम्मानः(भवानीपाटना,  २०१३) चेत्यादयः प्रमुखाः सन्ति । एतद्-व्यतिरिक्तं बहु-साहित्यिक-संस्थाभिः प्रदत्तैः मानपत्रादिभिः स संवर्धना-प्राप्तः ।
   कवि-हरेकृष्ण-मेहेरस्य शिक्षागत-योग्यतापि प्रशंसनीया । उत्कल-विश्वविद्यालयात् संस्कृत-स्नातक-सम्माने प्रथम-श्रेण्यां प्रथमः (१९७५); वाराणसी-नगर्याः काशी-हिन्दु-विश्वविद्यालयात् सम्प्राप्तम् उपाधि-त्रयम् : एम्.ए. (संस्कृतम्) प्रथम-श्रेण्यां प्रथमः, स्वर्णपदक-प्राप्तः (१९७७); पीएच्. डी. संस्कृतम् (१९८१); डिप्लोमा-इन्-जर्मान् (१९७९) । पीएच्.डी.-उपाधि-निमित्तं काशी-हिन्दु-विश्वविद्यालये तेन प्रस्तुतः ‘Philosophical Reflections in the Naisadhacarita’ इति- शीर्षकः शोध-ग्रन्थ: १९८९- वर्षे कोलकतायाः  पुन्थि-पुस्तक-संस्था-द्वारा प्रकाशितः सन् आन्तर्जातिक-स्तरे समादृतः लभ्यते ।
    १९८१-वर्षतः ओड़िशा-शिक्षा-सेवायां शासकीय-महाविद्यालयेषु कृताध्यापनः स शिष्यजन-समादृतः । ओड़िशा-प्रदेशस्य स्वनामधन्ये सम्बलपुर-स्थिते गङ्गाधर-मेहेर-स्वयंशासित-महाविद्यालये स सम्प्रति  स्नातकोत्तर-संस्कृत-विभागस्य मुख्यरूपेण कार्यरतः । कृतविद्येन तेन प्रणीतेषु आधुनिक-संस्कृत-काव्यादिषु विद्यन्ते  ‘मातृगीतिकाञ्जलिः’, ‘पुष्पाञ्जलि-विचित्रा’, ‘सौन्दर्य-सन्दर्शनम्’, ‘जीवनालेख्यम्’, ‘मौन-व्यञ्जना’, ‘हासितास्या वयस्या’, ‘उत्कलीय-सत्कला’, ‘स्तवार्चन-स्तवकम्’, ‘सूक्ति-कस्तूरिका’, ‘मेहेरीय-च्छन्दोमाला’ चेत्यादयो मौलिक-काव्य-कृतयः । कविवर-राधानाथ-राय-कृतायाः ‘वर्षा’ इति ओड़िआ-कवितायाः संस्कृत-श्लोकानुवादः, स्वभावकवि-गङ्गाधर-मेहेर-विरचितस्य  ‘तपस्विनी’ इति प्रख्यातस्य ओड़िआ-महाकाव्यस्य (हिन्दी-आङ्गल-संस्कृत-भाषासु) तत्कृताः अनुवादाश्च  प्राधान्यं भजन्ते । कवि-गङ्गाधरमेहेर-कृतयोः ‘प्रणयवल्लरी’ ‘अर्घ्यथाली’ चेति   ओड़िआ-  काव्ययोः  संस्कृतानुवादोऽपि  तेन  कृतो विद्यते । आङ्गल- हिन्दी-ओड़िआ-कोशली-प्रमुखासु  संस्कृतभिन्न-भाषास्वपि  कविना हरेकृष्ण-मेहेरेण अनेकानि मौलिकानि अनुवाद-रूपाणि च पुस्तकानि रचितानि  ।
रचना-शैली
    हरेकृष्ण-मेहेरः न केवलं छन्दोबद्ध-रचनायाम्, अपितु मुक्तच्छन्दोभिः कविता-प्रणयनेऽपि प्रवीणः । आधुनिकता-पुरातनतयोः समन्वयवादि-कवि-रूपेण स परिचितः । कविः  स्वयं गीतिकारः स्वर-संयोजकश्च विभाति । विविध-कवि-सम्मेलनेषु तस्य गीति-कवितादीनां  सुस्वर-परिवेषणं सहृदयैः बुधैः समाद्रियते । भारतीय-संस्कृतेः गौरवं तस्य रचनासु प्रतिफलितं विलोक्यते । आधुनिकी नव्यशैली-सम्पन्ना च तदीया दृष्टि-भङ्गी परिलक्ष्यते । राजते तस्य  काव्येषु पदावली माधुर्य-लालित्यमयी अनुप्रास-भरिता, प्रसाद-गुणयुक्ता वैदर्भी-रीति-सम्पन्ना च । अत्र किमपि काठिन्यं जटिलत्वं दुर्बोधत्वं वा न लक्ष्यते । 
भाषायाः सारल्यं सौकुमार्यं भाव-वैशद्यम्, शब्द-योजनायाः वैचित्र्यपूर्णं नैपुण्यम्, आलङ्कारिकतायाः मनोरमं सूक्ष्म-कौशलं रसोत्तीर्णत्वं चेत्यादीनि तत्वानि कवेः कृतीनां हृदयस्पर्शित्वं प्रकटयन्ति । काव्येषु भावानुकूला ललित-पदन्यास-समेता चमत्कारिता पाठकानां मानसं हरति । साङ्गीतिक-माधुरी अपि सहृदयानां चित्तमनायासेन समाकर्षितं विमुग्धं समाह्लादितं च कर्त्तुं समर्था । देशभक्तिः, आध्यात्मिकता, दार्शनिकता, मानवतावाद-चिन्तन-धारा भाव-गाम्भीर्य-सहकारेण कलात्मक-रूपेण समन्विता दृश्यते । कान्ता-सम्मित-वचनस्य मनोज्ञमालेख्यं कवेः काव्येषु मूर्त्त-रूपेण समङ्कितम् । तस्य अनुवाद-कृतिषु अपि अर्थानुगतायां स्वीय-मधुर-ललित-पद-राजि-संयोजनायां प्रतिभायाः मौलिकता प्रतिभाति ।
भाषायाः सारल्यं सौकुमार्यं भाव-वैशद्यम्, शब्द-योजनायाः वैचित्र्यपूर्णं नैपुण्यम्, आलङ्कारिकतायाः मनोरमं सूक्ष्म-कौशलं रसोत्तीर्णत्वं चेत्यादीनि तत्वानि कवेः कृतीनां हृदयस्पर्शित्वं प्रकटयन्ति । काव्येषु भावानुकूला ललित-पदन्यास-समेता चमत्कारिता पाठकानां मानसं हरति । साङ्गीतिक-माधुरी अपि सहृदयानां चित्तमनायासेन समाकर्षितं विमुग्धं समाह्लादितं च कर्त्तुं समर्था । देशभक्तिः, आध्यात्मिकता, दार्शनिकता, मानवतावाद-चिन्तन-धारा भाव-गाम्भीर्य-सहकारेण कलात्मक-रूपेण समन्विता दृश्यते । कान्ता-सम्मित-वचनस्य मनोज्ञमालेख्यं कवेः काव्येषु मूर्त्त-रूपेण समङ्कितम् । तस्य अनुवाद-कृतिषु अपि अर्थानुगतायां स्वीय-मधुर-ललित-पद-राजि-संयोजनायां प्रतिभायाः मौलिकता प्रतिभाति ।
‘मातृगीतिकाञ्जलिः’ 
 हरेकृष्ण-मेहेरेण रचितं ‘मातृगीतिकाञ्जलिः’ इति मौलिकं गीतिकाव्यं साम्प्रतिक-सहृदय-पाठक-समाजे लोकप्रियं विदुषामादरणीयं च वर्त्तते ।  कविना नव्य-मौलिकच्छन्दोभिः प्रणीताः पञ्चविंशति-संख्याकाः गीतिकाः काव्येऽस्मिन् सङ्कलिताः । काव्यमेतत् तस्य सर्जनशील-प्रतिभायाः प्रकृष्टं निदर्शनम् । जीवने समनुभूयमानाः विविधाः विषयाःगीतिकानामाधारभूताः विद्यन्ते । स्वप्रणीतः आङ्ग्लानुवादोऽपि अस्मिन् काव्ये सन्निवेशितः । राष्ट्रीय-स्तरे आन्तर्जातिक-स्तरे च अस्य गीति-काव्यस्य प्रसारार्थमनुवादोऽयं सहायको भवति ।
 ‘मातृगीतिकाञ्जलि’-काव्ये कविना मेहेरेण स्वयमेव प्रदत्तास्ति ताल-लय-समेत-गेयानां गीतिकानां साङ्गीतिक-महत्त्व-सहिता स्वरादि-सूचना । सा एवंप्रकारा, 
“नव्य-शैल्या प्रणीतानां गीतिकानां कृता मया ।
     स्वर-संयोजनाप्यासां स्वसामर्थ्य-समाश्रया ॥
    गायनं कर्त्तुमर्हन्ति गीतिकानां स्वरप्रदाः ।
     स्व-सौविध्यानुसारेण सङ्गीतज्ञा विशारदाः ॥”
             (प्रास्ताविकम्, ३-४,  पृ.१५)
   कविना परम्परामबलम्ब्य मौलिकी नूतन-च्छन्दोराजी रचितास्ति । स्वरचना-शैली-विषये कविः व्यनक्ति प्रास्ताविके, 
 ‘अनुसृत्य परम्पराम्
 मात्राच्छन्दोभि-र्मौलिकैः स्वोद्भावितैः कृता मया । 
 गीतिकावली सुतराम्
 प्रसाद-गुण-सम्पन्ना श्रद्धाबद्धा सदाशया ॥
  ललिता मधुरा रसभाव-भरा
  सुकुमार-रुचि-र्नवकाव्य-परा ।
  प्रिय-देवगवी-प्रवणा सुखदा
  मम गीतिरियं कमनीय-पदा ॥’
            (प्रास्ताविकम्, ७-८, पृ.१६)
   ‘गीर्वाण-वाणी-नीराजनार्थं
    प्रस्तूयते मे गीत्यावलीयम् ।
    विस्तारयन्ती कान्ता यथार्थं
    किञ्चिद् विशेषं तत्त्वं स्वकीयम् ॥’  
          (प्रास्ताविकम्, १२, पृ.१७)
‘मातृगीतिकाञ्जलिः’- काव्यस्य विषयचर्चा : 
   पञ्चविंशति-गीतिका-संवलितस्य अस्य काव्यस्य प्रथममर्घ्यं “वाणी-गीतिका” । कविना भारतीय-साहित्य-परम्परानुक्रमेण मङ्गलाचरण-रूपे ग्रन्थारम्भे पूजितास्ति विद्यादेवी सङ्गीत-कलादेवी सरस्वती । कविः एवं प्रस्तौति, 
        ‘कवि-जननी त्वं  शतदल-निवासिनी,
         भव-शमनी त्वं   सुविमल-सुवासिनी ।’ 
                  (वाणी-गीतिका, पृ.२१)
    अस्मिन् काव्ये मातृगीतिका, विश्व-गीतिका, जीवन-गीतिका, पुरुषोत्तम-गीतिका, प्रबोध-गीतिका, नारी-गीतिका,प्रणयिनी-गीतिका, प्रणयि-गीतिका, विभु-गीतिका, शिशु-गीतिका, नटराज-गीतिका, शक्ति-गीतिका, समय-गीतिका,कलाकर-गीतिका, अभिज्ञानगीतिका, शिवसङ्कल्प- गीतिका, गायत्री-गीतिका, भारत-भारती-गीतिका, कवि-गीतिका,गीता-गीतिका, सङ्गीत-गीतिका, दशरूपगीतिका, नववर्ष-गीतिका, देशगीतिका च संवलिताः । प्रत्येक-गीतिकायाः अन्ते गान-विषयिणी ताल-लयादि-सूचना प्रदत्तास्ति । जीवनस्य विविध-विषयाः अत्र सन्निवेशिताः । गीतिकानां नामानुसारमेव वर्ण्य-विषयाः सङ्केतिताः सन्ति । 
   आधुनिक-संस्कृते प्रसिद्ध-गीतिकविना आचार्य-श्रीनिवास-रथ-महोदयेन ‘मातृगीतिकाञ्जलिः’ काव्यस्य विषये “अभिमतम्”प्रदत्तमस्ति । विदग्धसुलभैः स्वप्रणीतैः श्लोकैः सह तस्य गद्य-पङ्क्तिः विशेषेण प्रणिधेया । तस्य मन्तव्यस्य कियदंशः एवम्,
  “संस्कृत-नवगीति-रचना-कविना श्रीहरेकृष्ण-मेहेरेण मातृगीतिकाञ्जलिरिति प्रकाशतामानीयते पञ्चविंशति-गीतिकालङ्कृतः स्वरचित-गीतिका-काव्य- सङ्ग्रहः । सङ्ग्रहेऽस्मिन् कवित्वबोध-बन्धुरा गीतिका विविधविषय-भासुरा दीप्यन्ते । भारतीय-कवितासु गीतिकाव्य-परम्परा भक्ति-रसायनभूता वितनोति समेषामानन्दम् ।  प्रस्तावना-पद्येषु    “गीर्वाण-वाणी-नीराजनार्थं प्रस्तूयते मे गीत्यावलीयम्” इतिस्वयं विनिवेद्य कविराशास्ते,
          ‘भवतु गौरव-सौरभ-भास्वरा
          विजयिनी मम देश-परम्परा ।’ इति ।
मातृगीतिकाञ्जलि-पद्येषु परम्परानुगतापि नूतन-पद-रचना-शक्तिः सुतरां प्रीणाति ।
        ‘रवि-सङ्काशः
         स्वयम्प्रकाशः,
         संसरणे त्वमनन्ताकाशः ।’ इति, 
         ‘अबलं सबलं
         शुष्कं सजलं
         स्वैरं कुरुते सरलं वक्रम् ।’ इति  वा
 सुव्यक्तमुररीकुरुतः  सुललित-पदक्रम- कमनीयताम् ।”  (अभिमतम्, पृ.३)
हरेकृष्ण-मेहेरस्य कवित्व-विषयेऽपि आचार्य- रथ-महाभागस्य मन्तव्यं प्रणिधेयम् : 
         “आयुष्मता हरेकृष्णेन मन्ये कवित्वबीजरूपः संस्कारविशेषः कुल-परम्परयार्जितः । यतोऽस्य पितामहः श्रीमनोहर- मेहेर-नामाऽजनि सरस-भणितीनामाकरः कविः कविताश्रित-कीर्त्तिः । तद्वदेवास्य जनयिता श्रीनारायणोऽपि कवि-पदवीमध्यास्तेऽनितर-साधारणीम् । अथच केचनात्र कुल-परम्पराधिगत-संस्काररूपेण कवित्व-बीजभूतां  शक्तिं न मन्यन्ते । ते तु देवता-प्रसाद-जन्यमदृष्टमेव कवित्वशक्तिकारणमिति  तदात्मक एव संस्कार इति स्वीकुर्वन्ति । यथातथा वा भवतु । उभयथाऽपि प्रतिपद्यत एवात्र कवयितरि संस्कारवत्त्वम् । तत्रापि सुरवाणी-शरणोऽयं प्रस्तौति मातृगीतिकाञ्जलिं बहुतराभ्यास-व्युत्पत्ति-लभ्यम् । तथा च,
        ‘कवित्वं जायते शक्ते-र्वर्द्धतेऽभ्यास-योगतः ।
          अस्य चारुत्व-निष्पत्तौ व्युत्पत्तिस्तु गरीयसी ॥’
इत्युक्त-दिशा वाग्देवता-प्रसादात् कालक्रमेण चारु चारुतरं च सम्पत्स्यते संस्कृत-कवितावनी-कृतपदस्य आयुष्मतो हरेकृष्णमेहेरस्य काव्यमित्याशास्महे । निबद्धाञ्जलिः कविरयं सदाशिषा योजयितव्यो भवति भावुकै-र्भावकैश्च । भूयश्च,
  श्रीहरेकृष्ण-मेहेर-रचितो गीतिकाञ्जलिः ।
  भद्रं वितनुतां लोके तनुतां च कवे-र्यशः ॥
इति शम् ॥”    (अभिमतम्, पृ.४)
   पुनश्च मातृगीतिकाञ्जलि-काव्यस्योपरि आचार्य-राजेन्द्रमिश्र-महोदयेन प्रस्तुतायां  पाण्डित्य-पूर्णायां दीर्घलेखायां भूमिकायां गीतितत्त्वस्य विशदं विवेचनं विलोक्यते । गीतेः संज्ञा-विचारणा-प्रसङ्गे तेन सामवेदादारभ्य महाकविकालिदास-शूद्रक-राजशेखर-आनन्दवर्धन-अभिनवगुप्त-प्रमुखै: सुकवि-जनैः समीक्षकप्रवरैश्च प्रसङ्ग-क्रमेण प्रतिपादितानां गीति-गीत-गान-गेय-शब्दानां सविस्तरमलोकपातः दृश्यते । गीतिकाव्यस्य स्वतन्त्रा संज्ञा यद्यपि केनचित् पूर्वविदुषा न निरूपिता, तथापि आचार्य-मिश्रेण पूर्वसूरि-कविभिः कृतानां गीत-विषयक-श्लोकानां विचारणा-पूर्वकं तन्मध्यात् गीतिकायाः निर्यास-रूपा संज्ञा समुद्भाविता । प्रस्तुत-गीतिकाव्योपरि भूमिकायां मन्तव्यम् एवमस्ति आचार्य- अभिराज-राजेन्द्रमिश्रस्य,      
     “सुप्रथित-यशसो मेहेर-कवेरन्यतमा काव्यकृति-र्मातृगीतिकाञ्जलि-नाम्नी सम्प्रति प्रकाश्यते । गीतिकाव्येऽस्मिन् पञ्चविंशति-मितानिललित-ललितानि गीतानि वर्त्तन्ते विविध-विषयीणि, यानि पाठं पाठं रसोद्रेक-मुकुलितं जायते सहृदय-मानसम् ।  * सरल-सरलै-र्भाव-प्रतनन-क्षमैः पदैः इमा गीतिका गेयत्वं मनोहारित्वं लालित्यं भावान्वितत्वं चेति पूर्वोल्लिखित-गीतवैशिष्ट्यजातं सम्यक्तया बिभ्रतीतिसचेतस एव प्रमाणम् । मौलिक्यो भावनाः प्रायेण सर्वास्वेव गीतिषु समुपलभ्यन्ते ।”  (भूमिका, पृ. ११-१२)
    ‘मातृगीतिका’ अस्य काव्यस्य द्वितीया गीतिः । रूपक-ताल-गान-बद्धायामस्यां वर्णितास्ति भारतमातु-र्महनीय-गुणावली । अस्याः पङ्क्तिरेका  समास्वादनीया, 
‘जयतु जननी जन्मभूमी
                  भव्य-भुवनं भारतम्,
विजयतां नो वन्दनीयं
                   सुन्दरं धामामृतम् । (ध्रुवम्)                                                 
‘बिभर्ति भूति सम्पदम्,  राष्ट्रमिदं हि शं-पदम्,
वैरि-लोचन-बाष्पदम्,   सत्कलाया आस्पदम् ।  
सांस्कृतिक्या एकतायाः  पुञ्जिता सञ्जीवनी,
मङ्गलमयी  रङ्गललिता  निखिलसुखदा लेखनी ।
    प्रेम-जगतां  जैत्र-गीतं  विबुध-हृदये झङ्कृतम्.
    विजयतां नो  वन्दनीयं  सुन्दरं धामामृतम्,
                      भव्य-भुवनं भारतम् ॥’  (मातृगीतिका, पृ.२५)
    जीवन-गीतिकायां मानवं प्रति उद्बोधन-समेतं कविना जीवनस्य समुज्ज्वल-दिशां प्रति आलोकपातः कृतः । नैसर्गिक-विभावादीनां शिक्षणीय-तत्त्वानि अस्माभिः कृते आहरण-योग्यानि भवन्ति इति कवेर्मतम् । मानवतायाः आत्मिकं सम्बन्धं दर्शयन् कविः कथयति, 
   ‘पश्य मधुमयं विश्वमीश्वरं
            प्रीतिं शान्तिं हृदि सर्वेषाम्,
   साधय सारं परोपकारं
            लभस्व कीर्त्तिं सफल-सुवेषाम् ।
        मानवतायाः  कलय महत्त्वं
        चिरन्तनं परिचिन्तय तत्त्वं
            सकलात्मनि सद्भावनम् ।
   जीवनं सुन्दरम्, सुन्दरं तनु तपोवनम्  ॥’
                       (जीवन-गीतिका, पृ.३३)
   सङ्गीत-कलाप्रियः कविः सङ्गीत-विषयेऽपि न नीरव-मुखः । समग्र-विश्वब्रह्माण्डे क्षुद्रकीटात् मनुष्यं यावत्, निसर्गस्य सर्वविभावेषु ब्रह्मनादस्य परिव्याप्तिं प्रतिपादयति कविः । यथा, 
          ‘विधातुः प्राङ्गणं  
                     विततं सङ्गीतमयम् ।    
           प्रकृत्याः प्रतिकणं 
                    नियतं युत-ताल-लयम् ॥ (ध्रुवम्)                                            
       पल्लविनी प्रफुल्ल-कुसुमा वल्लरी,
        गति-मन्दं  नृत्यति   छन्दः-सुन्दरी ।
         सुनिनदत्-कङ्कणं  
                   स्फुट-भाव-कलाभिनयम् ।
         प्रकृत्याः प्रतिकणं
                   नियतं युत-ताल-लयम्,
                 विततं  सङ्गीतमयम् ॥’     
                  (सङ्गीत-गीतिका, पृ.१०१)
  पुरातन-नूतन-मौलिक-रूपकल्प-योजनया दाम्पत्य-प्रणयस्य समङ्कितमस्ति मनोज्ञ-चित्रं ‘प्रणयि-गीतिका’ प्रणयिनी-गीतिका’ चेति गीति-युगले । पद्यमेकं प्रस्तूयते यत्र प्रणयी प्रणयिनीं प्रति स्ववचनं विविध-रूपकल्प-माध्यमेन प्रकाशयति, 
  ‘लीला त्वम्, लोला त्वम्, 
   प्रणय-प्रणीत-दोला त्वम् । (ध्रुवम्)
        ऋक् त्वमसि साम-शोभना,  
        ध्वने-र्मञ्जुला व्यञ्जना ।
        मम मर्मोद्गारस्य वा,   
        विभाविता कविता नवा ।
        प्रियाभिलाषा         मधुरा भाषा  
           भावाश्लिष्ट-निचोला त्वम् ।
           लीला त्वम्, लोला त्वम् ॥’
                  (प्रणयि-गीतिका, पृ. ५४)
   अस्माकं भारतवर्षस्य प्राकृतिक-वैभव-सौन्दर्यवर्णन-समेतं देशात्मबोधकतां दर्शयन् कविः देश-गीतिकां प्रस्तौति । अत्र लालित्य-माधुर्यपूर्ण-शब्द-संयोजनायां पद्यमेकमुदाहरण-स्वरूपम्,
       ‘अम्बुधि-विधौत-सुमधुर-चरण-विलासा,
        गङ्गा-सलिले  सलील-सुललित-हासा ।
        कुसुमारामे  रसभर-सुरभि-समीरा,
        तरुवर-पुञ्जे  रञ्जित-मञ्जु-शरीरा ।
       विहङ्ग-ताने                 मङ्गल-गाने
              श्यामल-शस्या विजयते ।
         भारतमाता परम-नमस्या विजयते ।
       स्वतन्त्रताया                रण-वीराणां
            सफल-तपस्या विजयते ॥’  (देशगीतिका, पृ.११३) 
मातृगीतिकाञ्जलि- काव्योपरि  मन्तव्यानि 
    काव्यमिदं संस्कृत-साहित्ये प्रतिष्ठितानां कतिपयेषां कवि-समीक्षक-जनानां मानसं हरति, आन्तरिकं प्रमोदं सरसतां च वितरति । अस्मिन् प्रसङ्गे विदुषां मन्तव्यानि उल्लेखनीयानि । पुरी-स्थितस्य श्री-जगन्नाथ-संस्कृत- विश्वविद्यालयस्य पूर्वतन-कुलपतेः प्रथित-यशसः ज्ञानपीठ-पुरस्कार-विजेतुः आचार्य-डॉ.सत्यव्रत-शास्त्रि-महाभागस्य मन्तव्यमत्र प्रणिधेयम् :
     “भवत्-प्रणीतं मातृगीतिकाञ्जलि-ग्रन्थमवापं परं च तद्वाचनेन परितोषम् । सरलः सरसश्च भवतां वाङ्-निष्यन्दः । अतीव ललिता पद-शय्याऽर्थगौरव-संवलिता । सर्वथा साधुवादार्हा भवन्त एतद्-ग्रन्थ-रत्न-प्रणयनेन । भवतां सर्वविधं मङ्गलमनुध्यायन् विरमाम्यहं सुर-सरस्वती-समाराधनैकव्रतः (शास्त्री सत्यव्रतः)।”
  उत्तरप्रदेश-मैनपुरी-स्थितस्य लब्धकीर्त्तेः ‘प्रणव’ इत्याख्यस्य कविवरस्य आचार्य-इच्छारामद्विवेदि-महाभागस्य मन्तव्यमेवम् : 
    “लब्धो मया तत्रभवतां ‘मातृगीतिकाञ्जलिः’ । भाव-सौगन्ध्य-निर्भरोऽयमञ्जलि-र्नूनमेव संस्कृत-वाङ्मय-श्रियं पुष्णातीति मे मोदावहम् । रागबद्धताऽस्याञ्जलेः परागमिवानुरागं वर्द्धयिष्यति विदुषामिति मे मतिः ।   आगामिनि काले तत्रभवतामयं पद्य-प्रकल्पो बहुषु गीतिकाव्येषु स्वीयां वैशिष्ट्य-विच्छित्तिं  प्रमाणयिष्यतीति मे द्रढ़ीयान्  विश्वासः ।”
 भुवनेश्वर-स्थितस्य  कविप्रवरस्य एस्. सुन्दरराज-महोदयस्य  मन्तव्यमित्थम् : 
     “मातृगीतिकाञ्जलि-नाम्न्याः भवदीय-गीति-कविता-पुस्तिकायाः प्रति-र्मया लब्धा, प्रीत्या प्रतिगृहीता च । संस्कृत-गीतिकवितायाः उत्सभूतः खलु उत्कल-प्रदेशः, यत्र महाकवि-जयदेवस्य गीतगोविन्दं यदेव संस्कृतवाङ्मये प्रथमं गीतिकाव्यमिति वक्तुं शक्यते, तत् प्रणीतम्,भगवते श्रीजगन्नाथ-देवाय सादरं समर्पितं च । * * 
भवतां संस्कृत-रचना सरला, सरसा, सालङ्कारा सुवर्णमय-मूर्त्तिश्च राराजते ।व्याकरणानुगुणमपि रचितमिति भवतां काव्यस्य उत्कर्षः । गीतिकाव्यानि यानि आधुनिक-काले कविभिः संस्कृते विरच्यन्ते, तानि प्रायशःव्याकरण-त्रुटि-पूर्णानि । एतद्-दोषमुक्तं भवतां काव्यं विशिष्य प्रशंसां, भवन्तोऽपि विशिष्य अभिनन्दनमर्हन्ति ।”
भवतां संस्कृत-रचना सरला, सरसा, सालङ्कारा सुवर्णमय-मूर्त्तिश्च राराजते ।व्याकरणानुगुणमपि रचितमिति भवतां काव्यस्य उत्कर्षः । गीतिकाव्यानि यानि आधुनिक-काले कविभिः संस्कृते विरच्यन्ते, तानि प्रायशःव्याकरण-त्रुटि-पूर्णानि । एतद्-दोषमुक्तं भवतां काव्यं विशिष्य प्रशंसां, भवन्तोऽपि विशिष्य अभिनन्दनमर्हन्ति ।”
   दिल्लीतः प्रकाशितायाः ‘अर्वाचीन-संस्कृतम्’-पत्रिकायाः मुख्य-सम्पादकस्य प्रसिद्ध-कविवर्यस्य आचार्य- डॉ. रमाकान्त-शुक्ल-महोदयस्य  मन्तव्यमपि दर्शनीयम् :
    “डॉ. हरेकृष्ण-मेहेरः  मातृगीतिकाञ्जलिरिति आधुनिक-संस्कृतगीतिकाव्य-सङ्ग्रहे मात्रिक-छन्दोभिः अन्त्यानुप्रास-निर्वाह-पुरस्सरं पञ्च-विंशति-मितानि गीतानि प्रस्तौति, यानि गातुं तेन ताल-लययोरपि निर्देशो गीतान्ते कोष्ठकेषु दत्तः । एतेषु गीतेषु प्रथमं गीतं वाणी-वन्दनात्मकमस्ति । द्वितीयं च भारतमातुर्वन्दन-परमास्ते । द्वितीयस्य गीतस्य शीर्षकं ‘मातृगीतिका’ वर्त्तते । 
अस्मिन् गीते ‘मातृ’-शब्दस्य प्रयोगो विहितः कविना, यथा –
‘एक-मातुः सुताः सर्वे भ्रातृसाम्यं सत्कृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम्,
भव्यभुवनं भारतम् ।’
मन्ये, ग्रन्थस्य नामकरणे द्वितीया गीतिकैव हेतुः । पुनश्च गीतिका मात्रा-च्छन्दोभिः प्रणीता, इयमपि व्यञ्जना भवति । गीतिकासु भारत-गौरवं, नारी-महिमा, त्र्यम्बक-यजनं, गायत्री-गानं कलाकार-प्ररोचना इत्येते भावाः साक्षात्कर्त्तुं शक्यन्ते ।”
अस्मिन् गीते ‘मातृ’-शब्दस्य प्रयोगो विहितः कविना, यथा –
‘एक-मातुः सुताः सर्वे भ्रातृसाम्यं सत्कृतम्,
विजयतां नो वन्दनीयं सुन्दरं धामामृतम्,
भव्यभुवनं भारतम् ।’
मन्ये, ग्रन्थस्य नामकरणे द्वितीया गीतिकैव हेतुः । पुनश्च गीतिका मात्रा-च्छन्दोभिः प्रणीता, इयमपि व्यञ्जना भवति । गीतिकासु भारत-गौरवं, नारी-महिमा, त्र्यम्बक-यजनं, गायत्री-गानं कलाकार-प्ररोचना इत्येते भावाः साक्षात्कर्त्तुं शक्यन्ते ।”
                                              (‘अर्वाचीनसंस्कृतम्’ २४/४, अक्टोबर २००२).
 बिहारप्रदेशस्य आरातः प्रकाशितायाम् ‘आरण्यकम्’ इति (सितम्बर-१९९९) शोध-पत्रिकायां समीक्षकवरेण डॉ.सुशील-कुमार-प्रधान-महोदयेन काव्योपरि प्रदत्तं मन्तव्यमित्थम् :
   “साहित्यरचना-शोधलेख-प्रसिद्ध-ग्रन्थानुवादादिषु लब्ध-ख्यातिना अर्वाचीन-संस्कृत-गीतिकारेषु अन्यतमेन हरेकृष्ण-मेहेरेण विरचितमिदं गीतिकाव्यं ‘मातृगीतिकाञ्जलिः’। * *  
प्रत्येकस्यां गीतिकायां नूतन-पद-रचना तथा च पद-क्रमस्य कमनीयता सुतरां मनोहारिणी विद्यते ।सर्वासु गीतिषु कवेः मौलिकं चिन्तनं परिदृश्यते । भावानुकारिणी भाषा सर्वथा व्याकरण-नियम-संयमिता सन्तुलिता चास्ति । प्रतिगीति अन्ते केन ताल-लयेन परिवेषणीया इति कविना सन्निर्दिष्टा । ‘तीव्रा-त्रिताल-झप-रूपक-दादराद्याः’ द्वारा कवेः गीतस्य शास्त्रीय-ज्ञानं लक्ष्यते । भावे सहजता, भाषायाः
प्रवाहः, पदेषु कमनीयता च एतस्य गीतिकाव्यस्य सहजं वैशिष्ट्यम् ।
एवं च विश्वगीतिकया समष्टिगत-कल्याण-भावनायाः उद्रेकः सहृदय-हृदयाह्लादकरः ।
जीवन-गीतिकायां जीवनस्य यत् सौन्दर्यं गाम्भीर्यं च प्रतिपादितं तद् विलक्षणमेव ।”
प्रत्येकस्यां गीतिकायां नूतन-पद-रचना तथा च पद-क्रमस्य कमनीयता सुतरां मनोहारिणी विद्यते ।सर्वासु गीतिषु कवेः मौलिकं चिन्तनं परिदृश्यते । भावानुकारिणी भाषा सर्वथा व्याकरण-नियम-संयमिता सन्तुलिता चास्ति । प्रतिगीति अन्ते केन ताल-लयेन परिवेषणीया इति कविना सन्निर्दिष्टा । ‘तीव्रा-त्रिताल-झप-रूपक-दादराद्याः’ द्वारा कवेः गीतस्य शास्त्रीय-ज्ञानं लक्ष्यते । भावे सहजता, भाषायाः
प्रवाहः, पदेषु कमनीयता च एतस्य गीतिकाव्यस्य सहजं वैशिष्ट्यम् ।
एवं च विश्वगीतिकया समष्टिगत-कल्याण-भावनायाः उद्रेकः सहृदय-हृदयाह्लादकरः ।
जीवन-गीतिकायां जीवनस्य यत् सौन्दर्यं गाम्भीर्यं च प्रतिपादितं तद् विलक्षणमेव ।”
 लब्धयशसः ओड़िआ-लेखक-समालोचकस्य डॉ. हेमन्तकुमार-दास-महोदयस्य मन्तव्यम् :
                                         "मातृगीतिकाञ्जलिः का भाषा-सारल्य, शब्दगुम्फन की अपूर्व पाटवता, साङ्गीतिक माधुर्य तथा  आलङ्कारिकता का सूक्ष्म शिल्प मेरे-जैसे एक सामान्य पाठक को भी रस की दोला में दोलायित कर आत्मविस्मृत कर रहा है ।  दार्शनिकता के साथ आध्यात्मिकता का कलात्मक  समन्वय  कविताओं को भाव-गम्भीर बनाता  है । कविता यदि अनुभूति का आलेख्य है  तो इस काव्य में उसका रसोत्तीर्ण रूप ही देखने को  मिलता है । आप जात-कवि हैं । कवि-कर्म के सहजात कवच-कुण्डल के साथ  आपका जन्म हुआ है । देश-विदेशों में इसके मर्म की उपलब्धि  करने हेतु रसज्ञ पाठकों का अभाव नहीं होगा ।”   
 आधुनिक-कवि-कथाकारेण डॉ.बनमाली-बिश्वाल-महोदयेन दत्तं मातृगीतिकाञ्जलि-गीतिकाव्योपरि मन्तव्यमेवम् : 
    “सुकवि हरेकृष्ण मेहेर आधुनिक संस्कृत गीतिकाव्य परम्परा में अपने लिये एक स्वतन्त्र एवं मर्यादापूर्ण स्थान बनाने में सफल हैं । मातृगीतिकाञ्जलिः की रचना में उनकी शैली दूसरे कवियों की शैली से भिन्न है । इसमें वैकल्य होनेका कोई कारण नहीं  दीखता । परम्परा के आधार में उद्भावित नव्य मौलिक छन्दों के प्रयोगों से विरचित कई सुन्दर गीत इस संग्रह को विमण्डित कर रहे हैं । विभिन्न ताल एवं लययुक्त ये गीत शास्त्रीय लघुसङ्गीत शैली में सर्वथा परिवेषणयोग्य हैं । उल्लेख्य है कि कवि श्रीमेहेर स्वयं एक गीतिकार एवं स्वर-संयोजक भी हैं । मातृगीतिकाञ्जलिः की मधुर पदावली प्रसाद-गुणोपेत वैदर्भी-रीति-सम्पन्न है । जटिलता एवं दुर्बोधता से कोसों दूर इस सुमञ्जुल काव्य का भावानुकूल ललित-पदन्यास-जन्य अपूर्व चमत्कारिता, सांगीतिक माधुरी पाठकों को अनायास आकर्षित, आह्लादित एवं विमुग्ध करने में समर्थ है ।”
(मितं च सारं च : हरेकृष्ण-मेहेर की ‘मातृगीतिकाञ्जलिः’/ विद्वानों की सारस्वत प्रतिक्रिया) 
[दृक्-१७, २००७, पृ.१२९-१३१]
[दृक्-१७, २००७, पृ.१२९-१३१]
आधुनिक-संस्कृत-साहित्ये प्रख्यात-यशसः कवि-समीक्षकस्य डॉ. हर्षदेव-माधवस्य मन्तव्यमीदृशम् :
             “आधुनिक-संस्कृत-वाङ्मये गीतिकाव्यानां सर्जनं लब्ध-प्रतिष्ठमधुना । डॉ. राजेन्द्रमिश्र-श्रीनिवासरथ-हरिदत्तशर्मा-राधावल्लभत्रिपाठी-पुष्पादीक्षित-रमाकान्तशुक्ल-हर्षदेवमाधव-भास्कराचार्यत्रिपाठी- इच्छारामद्विवेदी  
इत्यादिभिः प्रमुखैः संस्कृत-कविभिः नवनवोन्मेषयुक्ता गीतयो रच्यन्ते । 
श्रीहरेकृष्ण-मेहेरोऽपि नवगीति-रचना-निपुणः सङ्गीतज्ञः सुकविः ।  पञ्चविंशति-गीतिरचनालङ्कृतोऽयं 
मातृगीतिकाञ्जलिः इत्याख्यः काव्य-सङ्ग्रहो न केवलं नव-नवीनेषु विषयेषु बद्धानि गीतानि 
प्रस्तौति, अपितु  वाचकानां मनांसि जयति । अत्र भक्ति-श्रद्धा-प्रणय-पूजा-साहित्य-साहित्यकारस्तुति- विश्व-नारी-जीवनादिषु मधुर-मधुरेषु भावेषु कवेरभिव्यक्तिः स्वभाव-कोमला रस-प्रवाह-माधुरीमयी 
भवति तरला प्रवाहिता ।*
कवित्वं स्पन्दते तस्य सरलासु शब्दावलीषु । क्वचित् चिन्तनमपि स्फुरति ।  यथा, 
‘सञ्चर धर्मे कर्मणि योगे,
किञ्चनापि मणि-काञ्चन-योगे,
    कुरु नव-नवमुद्भावनम्,
जीवनं सुन्दरं सुन्दरं तनु-तपोवनम्  ।’
कविना गीति-रचनासु सङ्गीत-तत्त्वमपि संरक्षितम् ।”  
(नखदर्पणः, पृ. ५६-५७)
(नखदर्पणः, पृ. ५६-५७)
सौन्दर्य-विवेचनम् :
  ‘सौन्दर्य-सन्दर्शनम्’ इति काव्ये कविना हरेकृष्ण-मेहेरेण सौन्दर्यस्य तत्त्वं स्वरूपं सौन्दर्यानुभूतिः, सौन्दर्यस्य अनुभवी चेत्यादयो विषयाः विशदं प्रतिपादिताः । वस्तुतः मानवस्य रुच्यनुसारमेव सौन्दर्यमनुभूयते । ‘क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः’ (शिशुपालवधम्, ४/१७) इति माघ-कवेः उक्तिः सुविदिता । कविना  मेहेरेण   सत्यस्य   शिवस्य     च समावेशः  सुन्दरेण  सह  विहितः ।  कविः निगदति  यत्  अज्ञ-जनस्य  कृते  सौन्दर्यं रुचिकरं न भवति ।
         ‘सत्यं शिवं सुन्दरमत्र लोके   
                     प्रसिद्धमेतत् त्रितयं विभाति ।  
         जानाति नित्यं खलु तत्त्वदर्शी   
                    नाज्ञाय किञ्चित् स्वदते मनोज्ञम् ॥’ (सौ. स.)
व्यक्त्यनुसारं  सौन्दर्यानुभूतिः  स्वतन्त्रा भवति इति कविः मतं पोषयति ।  मम तव अन्यस्य च नयनेषु सौन्दर्यानुभूतिः कविना वर्णितास्ति एवम्,
         ‘मन्नेत्रयो-र्यत् प्रतिभाति सुन्दरं   
               त्वन्नेत्रयोस्तन् न भवेत् तथाविधम् ।
        यदन्य-नेत्रे रुचिरं प्रपश्यत-  
              स्तथैव नैतन् मम ते च नेत्रयोः ॥’ (सौ. स.)
       ‘परन्तु किञ्चिद् भुवि वस्तु विद्यते 
                 विचित्रमेवं  रचितं विधात्रा ।
        यद् वै जनानां जगतां समेषां   
              नेत्राणि पश्यन्ति सदैव सुन्दरम् ॥’ (सौ. स.) 
 सौन्दर्यं बाह्यमाभ्यन्तरं चेति द्वि-प्रकारकं भवतीति कवेर्मतम् । अन्यत्र ‘सौन्दर्यम्’ इति कवितायां कविः शब्द-स्पर्श-रूप-रस-गन्ध-माध्यमेन सौन्दर्यं प्रतिपादयति ।  यथा, नायिकायाः रूप-वर्णनाप्रसङ्गे कविः व्यतिरेकानुप्रास-प्रभृत्यलङ्कार-योजना-समेतं सपदलालित्यं  माधुर्यसमन्वितं वक्ति,
‘नेत्र-निर्जित-नीलोत्पलायाः
          द्युति-पलायित-चपलायाः
          कान्तायाः कान्त-कुन्तलायाः
          समलङ्कृत-भूतलायाः
          विलोक्य लपनमतन्द्रो धृतम्लानिः,
          सलज्जं जलद-जाल-मध्ये
          साभिमानमात्मानं गोपायते
          वराको राकाजानिः,
          कलङ्क-लेखाङ्कित-कलेवरः
          कलितामृत-किरणोऽपि कलाकरः ॥’ (सौन्दर्यम्)   
सामाजिक-सांस्कृतिक-विवेचनम् 
‘जीवनालेख्यम्’ इति काव्ये जीवनस्य विविध-तत्त्वानि वर्णितानि । आधुनिकता-नाम्ना कथं विज्ञापन-प्रचारणादिकं प्रदर्शनं चलति, सारासारयोः महत्त्व-विवेचना-सहितं कविः वर्णयति,
‘जीवनालेख्यम्’ इति काव्ये जीवनस्य विविध-तत्त्वानि वर्णितानि । आधुनिकता-नाम्ना कथं विज्ञापन-प्रचारणादिकं प्रदर्शनं चलति, सारासारयोः महत्त्व-विवेचना-सहितं कविः वर्णयति,
 ‘युगमिदं प्रदर्शनस्य,
 आत्म-डिण्डिम-वादनस्य,
 निम्न-मानस्यापि बहुमान-प्रतिपादनस्य,
 दग्धाननस्यापि प्रसाधन-लिप्त-दीप्त-वदनस्य,
 शून्य-गर्भस्यापि बाह्य-पूर्णतापादनस्य
 शुष्क-वस्तुनोऽपि सरसास्वादनस्य,
 निज-दोषाच्छादनस्य जनता-प्रसादनस्य
 आधुनिकता-नाम्ना रिक्त-मानसोन्मादनस्य ॥’  
(प्रदर्शनम्), [संस्कृतमञ्जरी,अक्टोबर २००८, पृ.२२] 
अस्य काव्यस्य जीवन-सम्बन्धिनी एका पङ्क्तिः कवेः मुक्तच्छन्दसा प्रणीता इत्थम्,
  जीवनं नाम विहङ्गमः
  अवसाद-शून्याङ्गो नीड़-गृहङ्गमः,
  हृदय-व्योम्नि विहरति
  प्रसारित-पक्षः स्वलक्ष्यं प्रति,
  वितरन् मञ्जुलां गुञ्जित-काकलीं
  मधुर-रीत्या गीत्यावलीं
  समाह्लादित-स्थावर-जङ्गमः
  प्रपञ्चित-पञ्चम-स्वर-सङ्गमः ।’ (जीवनदशकम्)          
      [संस्कृतमञ्जरी, जुलाई-२००५, पृ.२२]
   भारतीय-संस्कृतौ समुद्घोषितं ‘सत्यमेव जयते नानृतम्’ (मुण्डकोपनिषद्, ३-१-६) । पुराणकाव्यादिषु सत्यासत्ययोः सङ्घर्षे सत्यस्य विजयः सर्वत्र प्रतिपादितो वर्त्तते । कविना हरेकृष्णमेहेरेण सत्योपरि नैकाः कविताः रचिताः । ज्योतिःस्वरूपं वह्निसमं सत्यं दर्शयन् ‘मौनव्यञ्जना’-काव्ये कविः कथयति,
     ‘असत्यस्य विजयो मायाच्छन्नः
     सत्यमेव धर्मश्चिरन्तनः ।
     सर्वोपरि परिणामे
     सत्यमेव जयते द्वन्द्व-ग्रामे संग्रामे,
     जयति ज्योति-र्यथा
     निरस्त-तमःस्तोमम्,
     अधःकृतोऽपि कृशानुरूर्ध्वगामी सर्वथा
     न कदापि भजते विलोमम् ॥’   (सत्यम्)  
        [लोकभाषासुश्री:, अगस्त-२००५]
   ‘मौन-व्यञ्जना’ इति कवितायां कविः मौनभावस्य नीरवतायाः निगूढ़त्वं विशेषत्वं च वर्णयति उपमा-यमकानुप्रासादिभिः सार्धम् । यथा,
    ‘कदाचित् स्वल्प-कथनेनापि
     प्रकाशतामभ्येति बह्वभिप्रायः,
     यथा व्यञ्जना-रञ्जिता अभिधा ।
     कदाचिद् वचनोच्चारणं विनापि
     आन्तरिकाशयः प्रकाशतां याति बहुधा ॥  
     कदाचिद् वाचालतयापि
     समुच्चारितै-र्बहुवचनैः
     नाभिव्यज्यते मर्म-भावना सुविशदम् ।
     तूष्णींभावोऽपि कदाचित्
     अभिव्यनक्ति मुखरताम् ।
     कदाचिद् मुख-रताऽपि मुखरता
     नीरवतां भजते
     आभ्यन्तराभिप्रायं प्रकाशयितुम् ॥’    (‘लोकभाषासुश्रीः’, फेब्रुआरी-मार्च २००६)
  सम्प्रति प्रचलितानां हाइकु-सिजो-तान्का-नामकानां विदेशीय-च्छन्दसां प्रयोगोऽपि कवि-मेहेरेण कृतोऽस्ति ‘हासितास्या वयस्या’  इति काव्ये स्वनाम्ना यथार्थ-शीर्षके । अत्र (५-७-५-वर्णात्मकेन) हाइकु-नाम्ना छन्दसा रचितायाः कवितायाः एकमुदाहरणम्,  
          ‘वामनी काया,
           विधुं लब्धुमुत्थिता,
           घर्माक्ता भ्रष्टा ॥’ (वामनी)
  कवि-मेहेरेण (५-७-५-७-७-वर्णात्मकेन) तान्का-छन्दसा रचिता सामाजिक-समस्या-परका एका पङ्क्तिः प्रस्तूयते,  
          ‘दैन्यदा वन्या, 
           अधन्या गृहशून्या ।
           द्रविण-बन्धः,
           कर्मिणां निर्मीयते, 
           प्रवहत्यर्थधारा ॥’  (वन्या) 
  ‘भावना’ इति कवितायां भारतीय-संस्कृत्याः शाश्वत-मूल्यबोधं दर्शयन् कविः देशभक्तिं सूचयति । उदाहरण-स्वरूपम्, 
                 ‘या वैदिकैरार्यवरै-र्महस्वती  
                    मनीषिभिः सत्प्रतिभां वितन्वती ।
              प्रकीर्त्तिता विश्वजनीन-दर्शना  
                    मान्यैव सा मानवतेति भावना ॥’ 
              ‘उदात्त-कण्ठै-र्भुवि विश्वबन्धुता  
                     विधीयते या नितरां जनै-र्नुता ।
              महानुभावा महनीय-चेतना   
                     सनातनी सैव विभाति भावना ॥’
                               (भावना)   [संस्कृतमञ्जरी, १०/२, २०००]
   जातीय-संहति-प्रतिष्ठार्थं कविः मतं पोषयति यत् भारतस्य निवासिनः केवलं नागरिकाः न भवेयुः, अपितु भारतीय-भाव-सम्पन्नाः सन्तः मातृभूमिं प्रति भक्त्तिपराः स्युः । कवि-र्वदति,
              ‘किं चेष्टकै-र्बहुधनैरुपलैः श्रिया वा
                       नात्मीयता यदि गृहे परिवार-भावा ।
               किं देश-नागरिकता कुरुते धृतासना
                       नेष्टा यदि स्वहृदि राष्ट्रियतेति भावना ?’  (सूक्ति-कस्तूरिका)
   जनेषु परस्परमविश्वासं  पारिवारिक-शान्तिभङ्गं नारी-निर्यातनं दुर्बलानामुपरि दुष्कर्मात्याचारादिकं च वीक्ष्य कविः साम्प्रतिक- समाजस्य प्रदूषितं कलुषितं पर्यावरणं सूचयति । दुःशासनादि-चरित्राणां कुकर्माणि दृश्यन्ते, कृष्णादयः रक्षकाः न लभ्यन्ते इति सखेदं कथयति, 
     “अद्यापि विद्यन्ते मन्थराः
     दाशरथये दर्शयितुं काननस्य पन्थानम् ।
     कैकेय्यो विवेकिनस्तत्पराः
     हन्त अर्हन्ति बहुमान-स्थानम् ॥
     अद्यापि भ्रमन्ति रावणाः
     बहु-वैदेही-हरण-प्रवणाः ।
     कुर्वन्ति द्रुतमुपद्रवं जयद्रथाः
     पर-दारापहरणार्थं समारूढ़-रथाः ॥
     बाष्पपूर्णाश्चतुष्पद्यः
     अद्यापि खिद्यन्ते समुपद्रुता द्रौपद्यः ।
     शरव्या दुःशासनानाम्
     केश-कर्षण-धर्षण-लालसानाम् ।
     भीष्मास्तु तूष्णीकृत-वर्ष्माणो ह्यनुष्णाः
      अपेक्षन्ते कदा रक्षिष्यन्ति श्रीकृष्णाः ॥”  
                       (अन्धानुसन्धानम्)  [संस्कृतमञ्जरी, अप्रेल्-२००७]
   कविः ‘मातृगीतिकाञ्जलिः’ इति काव्ये नारी लक्ष्मीरूपिणी, देवीस्वरूपा सुगृहिणी, प्रेम-स्नेह-ममतामयी इति नारी-गीतिकायां नारी-गौरवं प्रशंसति । परन्तु अन्यत्र खलनायिका-भूतायाः नार्याः निष्ठुरतां प्रति स्वरमुत्तोल्य आक्षिपति । साम्प्रतिक-समाजे यौतुक-धनलोलुपैः निर्दय-श्वश्रूगणैः निर्मम-निपीड़िताः वधूजनाः करुणपरिणतिं लभन्ते इति कविः नारीणां दुर्दशां वर्णयति । यथा, 
       ‘नारी एव नारीणां हन्त्री
       कम्पते यया शम्पापातिन्या लोक-हृदय-तन्त्री ।
       परिणय-वेदिकायां युवत्यः
       यौतुक-ज्वालायामार्जववत्यः
       वलीभवन्ति विवाहिताः
        तयैव सपारुष्यं बहुदूर-वाहिताः ॥’ (महिला)  (दृक्, अङ्क-११, २०१२,, पृ. १००)
  पुनश्च साम्प्रतिक-समाजे राजनीतिक-स्थितिं जनतायाः निरीहत्वं च दर्शयन् कविः भ्रष्टाचार-दूरीकरणार्थं जन-जागरणमेव महौषधमिति मतं पोषयति ‘महौषधम्’ इति कवितायाम् । यथा, 
         ‘घोटाला-घोटकाः सत्वरं
धावन्ति प्रशस्त-राजमार्गे,
धूली-धूमावृतं कृत्वा चत्वरं
प्रखर-खुरोत्क्षेपणैः पश्चाद्भागे ॥
दुर्नयो मारात्मक-व्याधीभूय प्रतिक्षेत्रम्
धावन्ति प्रशस्त-राजमार्गे,
धूली-धूमावृतं कृत्वा चत्वरं
प्रखर-खुरोत्क्षेपणैः पश्चाद्भागे ॥
दुर्नयो मारात्मक-व्याधीभूय प्रतिक्षेत्रम्
         शनैःशनैः खादति देश-गात्रम्,
चेष्टते नितरां राष्ट्रस्य
पङ्गुत्वं विधातुं गणतन्त्राङ्गेषु ।
वराकी जनता न जानाति
चेष्टते नितरां राष्ट्रस्य
पङ्गुत्वं विधातुं गणतन्त्राङ्गेषु ।
वराकी जनता न जानाति
         मुद्रित-नेत्रा  केवलं  दृष्टिं दधाति ॥ 
जन-जागरणमेव महौषधम्
जन-जागरणमेव महौषधम्
         कर्त्तुं भ्रष्टाचार-व्याधि-वधम् ।
संस्कार-समुच्चार एव महामन्त्रः
सुसञ्चालित-जनतन्त्र-यन्त्रः ॥’
संस्कार-समुच्चार एव महामन्त्रः
सुसञ्चालित-जनतन्त्र-यन्त्रः ॥’
                      (महौषधम्) [अर्वाचीनसंस्कृतम्, अप्रेल-२००४]
    ‘पुष्पाञ्जलि-विचित्रा’ इति काव्ये मेहेर-कवेः नाना-रुचि-सम्पन्नानां पद्यानां गीतीनां च वैचित्र्यं लक्ष्यते । अत्र आदौ भारत्याः भारतीय-संस्कृत्याश्च गौरवं प्रशंसन् कविः प्रस्तौति स्वमौलिकच्छन्दसा प्रणीतं गीतम् । 
    ‘विजयतेतराम् ओंकार-भारती,
     संस्कार-भारती ।
     शुचि-वर्णम्, अन्तःकरणम्,  
     भुवि भव्या प्रतिभा विभास्वती ॥’ (ध्रुवम्)
 भारतीयं साहित्य-शिल्प-स्थापत्यादिकं भौगोलिकं सांस्कृतिकं महत्त्वं च प्रख्यापयन् कविः देशात्मबोधकत्वं वर्णयति, 
‘संहति-सूत्रा भारत-पुत्रा मैत्री-भरणे,
‘संहति-सूत्रा भारत-पुत्रा मैत्री-भरणे,
   शान्ति-भावना धार्या नियतं पर्यावरणे ।
        मातृ-पदे,   मङ्गलास्पदे,
   प्रणति-र्नो नितरां भक्तिमती ।
विजयतेतराम् ओंकार-भारती, संस्कार-भारती ॥’    (संस्कृति-गीतिका) [पद्यबन्धा, अङ्क-१]
   कविना मेहेरेण  स्वीय-मौलिक-नव्य-च्छन्दसा प्रणीतं  पर्यावरण-परकं  हृद्यं पद्यमेकं प्रस्तूयते, 
‘शान्ति-मन्त्रो जयतु नितरां सौम्य-गाने,
‘शान्ति-मन्त्रो जयतु नितरां सौम्य-गाने,
          प्रेम-गङ्गा वहतु सुजला ऐक्य-ताने ।’
           *
          ‘भातु पर्यावरणममलं दिग्-विताने,
           यातु हिंसा ध्वंसमचिरं सन्निधाने ।
                 अवतु पवनो  मुक्त-गगनं
                 स्वच्छ-परिमल-धौत-सदनं
               दूषणानां  पर्व यातु पराहतम् ।
           प्रीति-मैत्री-बोधना    हार्दिकी  सद्भावना
                 हन्तु सर्वं  वैर-वर्वर-पर्वतम्,
              भातु  सत्यं  सुन्दरं  शिव-सम्मतम् ।
              शाश्वतम्,  प्रकृति-मानव-सङ्गतम् ॥’   (पर्यावरण-गीतिका)
  अन्या एका कविता ‘कुहू-कुहू-कूजनम्’ इति अत्र उल्लेखमर्हति प्रेम-परका पिक-वसन्त-तारुण्य-प्रकाशिका । कविः प्रस्तौति, 
     ‘कोकिलस्य कुहू-कुहू-कूजनम् ।
किं निसर्ग-देव-मन्त्र-पूजनम् ॥ (ध्रुवम्)
किं निसर्ग-देव-मन्त्र-पूजनम् ॥ (ध्रुवम्)
     राग-रङ्ग-मङ्गला  शोभते शुभाङ्गना,
भाव-वीचि-चञ्चला काञ्चनी वरानना ।
एहि रे ! धेहि रे !
मानिनी-जनस्य मान-भञ्जनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥’ (कुहू-कुहू-कूजनम्) (संगीत, जून् २००५)
भाव-वीचि-चञ्चला काञ्चनी वरानना ।
एहि रे ! धेहि रे !
मानिनी-जनस्य मान-भञ्जनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥’ (कुहू-कुहू-कूजनम्) (संगीत, जून् २००५)
  ‘पुष्पाञ्जलि-विचित्रा’- काव्यात् एका गलज्जलिका (गजल-गीतिः) ‘प्रियमिलनम्’ इति प्रणय-परका उदाहरणीया । नायिका-मुखेन मिलन-विरह-विषयं कविः रागानुकूलं प्रस्तौति । यथा, 
   ‘प्रिय-मिलनं यदा भवेन् नूनं मे ।
   स्वर्भुवनं प्रतीयते न्यूनं मे ॥ (०)
   शशि-विरहे कुमुद्वती नो फुल्ला,
   स्वं हृदयं प्रियं विना दूनं मे ॥
   पिक-विरुते सुमञ्जुलं सञ्जातम्,
   ह्री-सहितं विमोहितं मौनं मे ॥’  (प्रिय-मिलनम्) [संगीत, सितम्बर-२००४]
  कविः ओड़िशायाः  ऐतिह्यं गौरवं च मधुरं व्यनक्ति  ‘उत्कलीय-सत्कला’ इति काव्ये । तस्य मधुर-ललितं पद्यमेकम्,
                 ‘शिल्प-कल्पना- स्पन्दित-मन्दिर-माला,
अनिन्द्य-रूपा वन्दित-सुन्दर-भाला ।
निसर्ग-देव्या रङ्ग-सुविशाल-शाला,
मङ्गल-भङ्ग्या वाङ्मय-मयूख-जाला ।
मन्दाकिनीव पुनती नाशित-मन्दा,
संस्कृति-सुरुचा सञ्चारित-मकरन्दा ।
वसुन्धरा सा सिन्धु-विलासा
स्निग्ध-बन्धना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥’ (उत्कलीय-सत्कला, १)
अनिन्द्य-रूपा वन्दित-सुन्दर-भाला ।
निसर्ग-देव्या रङ्ग-सुविशाल-शाला,
मङ्गल-भङ्ग्या वाङ्मय-मयूख-जाला ।
मन्दाकिनीव पुनती नाशित-मन्दा,
संस्कृति-सुरुचा सञ्चारित-मकरन्दा ।
वसुन्धरा सा सिन्धु-विलासा
स्निग्ध-बन्धना महीयताम् ।
उत्कल-जननी सत्कला-धना महीयताम् ॥’ (उत्कलीय-सत्कला, १)
  हरेकृष्ण-मेहेर-कृता ‘स्तवार्चन-स्तवकम्’ इति कृतिः भक्ति-प्रार्थना-वन्दनारूपाणां पद्यानां समाहार-भूता । अत्र ‘श्रीजगन्नाथ-प्रार्थना’ इति कवितायाः श्लोक-युगमित्थम्, 
‘शुभं सुभद्रा-बलभद्र-सङ्गतं   
    नमामि नाथं जगतां वरेण्यम्  ।
ओंकार-रूपं भुवि दारु-दैवतं   
    वेदान्त-वेद्यं महतां शरण्यम्  ॥’
‘मैत्रीं प्रशान्तिं सुखदां चिरन्तनं   
    तनोतु विश्वे तव नाम चिन्तनम्  ।
आत्मीयता-रूप-रसो महीयतां   
    प्रभो जगन्नाथ ! कृपा विधीयताम्  ॥’
(संस्कृत-प्रतिभा, २३/२, २००० - २००१, साहित्य अकादेमी, नवदिल्ली)
कवेः ‘आयाहि दुर्गे’ इति कवितायाः ललित-मधुरं भावभरितं श्लोकयुग्ममेवम् :
 ‘आयाहि  दुर्गे !  वरदा महायुधा   
     हे दुष्ट-विध्वंसिनि !  धर्म-धारिणी ।
गङ्गाधरार्धाङ्गि  ! निधेहि मङ्गलं  
     तवानुकम्पा  हृदयं पुनातु  नः ॥’
‘अस्माकमन्तःकरण-प्रदूषणं  
      भस्मीकुरु त्वं तमसां निरासिनी ।
शर्वाणि !  सर्वाणि पवित्रय स्वयं 
      विधाय पर्यावरणं सुनिर्मलम् ॥’   (‘बर्त्तिका’ शारदीय-विशेषाङ्क, २०१२)
   उपर्युक्तेषु  उदाहरणेषु कवि-हरेकृष्णस्य साङ्गीतिकतायाः, गीतिकवितायाः, मुक्तच्छान्दस-कवितायाश्च मौलिक-परिचयः समुपलभ्यते । एतत् सर्वं दिग्दर्शनमात्रम् । सुधीभिः अन्याः कविताः अनुसन्धेयाः ।   
कवेः अनुवाद-वैशिष्ट्यम् :   
    
    स्वभावकवि-गङ्गाधर-मेहेर-प्रणीतस्य ‘तपस्विनी’ इति प्रख्यातस्य ओड़िआ-महाकाव्यस्य हरेकृष्ण-मेहेरेण आङ्गल- हिन्दी-संस्कृत-भाषानूदितानां पुस्तकानां  प्रसारणमान्तर्जातिक-स्तरे समुपलभ्यते । अन्तर्जाल-स्थानेष्वपि सर्वं त्रयं दर्शनीयम् । वाल्मीकि-रामायणीयं सीतावनवास-विषयं समवलम्ब्य कृतमिदं महाकाव्यम् । अस्य सारतत्त्वं साहित्य-दर्पणोक्तं महाकाव्य-लक्षण-निरूपणादिकमाश्रित्य निज-भाषया संस्कृतानुवादकेन कविना एवं प्रस्तुतमस्ति,
 ‘तपस्विनी-महाकाव्यं  स्वभावकविना कृतम् ।
 गङ्गाधर-मेहेरेण  रङ्गायितं सुवर्णकम् ॥
 जानकी नायिका यत्र  श्रीराम-सहधर्मिणी ।
 सती-शिरोमणी साध्वी पतिव्रता तपस्विनी ॥
 सर्गा एकादश ख्याताश्छन्दो-रागैरलङ्कृताः ।
 ग्रन्थाद्यं प्रार्थना-वस्तुनिर्देशात्मक-मङ्गलम् ॥
 निर्वासनोत्तरं वृत्तं  रामपत्न्याः प्रकीर्त्तितम् ।
 सीतायाश्च तपश्चर्या- विभा कवेरभीप्सिता ॥
 वाणी भावमयी स्निग्धा  प्रधानः करुणो रसः ।
 दर्शनीयं  निसर्गस्य  चित्रणं चात्र मञ्जुलम् ॥
 मौलिकोद्भावना भाति  कवेरत्र स्वतन्त्रता ।
 सौरभं भारतीयं च  सांस्कृतिकं सुसंभृतम् ॥
 सीता-चरितमाश्रित्य  विशेषेण विनिर्मितम् ।
 वक्तुं हि शक्यते काव्यं  सीतायनमिति स्मृतम् ॥ 
 ओड़िआ-मूलभाषायाः  कृतः संस्कृत-भाषया ।
 मम काव्यानुवादोऽयं  मोदयतु सतां मनः ॥’ 
     (प्राक्कथनम्, तपस्विनी, पृ. १०-११)  
अस्य चतुर्थ-सर्गे वाल्मीकि-मुन्याश्रमे उषा-वर्णना विशेषेण लोकप्रिया । पद्यमेकं मधुर-‘चोखि’-रागेण रचितम् (ओड़िआ-मूलम्),
“मङ्गळे अइला उषा विकच-राजीव-दृशा
“मङ्गळे अइला उषा विकच-राजीव-दृशा
      जानकी-दर्शन-तृषा  हृदये बहि  ।
  कर-पल्लबे नीहार-      मुक्ता धरि उपहार 
      सतीङ्क बास बाहार  प्राङ्गणे रहि ।
         कळकण्ठ-कण्ठे  कहिला,
      ‘दरशन  दिअ  सति !  राति पाहिला’ ॥”   
                      (तपस्विनी, ४/१)  
      कवि-हरेकृष्ण-मेहेरस्य स्वकीय-शैल्या  संस्कृतानुवादे तत्पद्यमेवम्, 
     ‘मङ्गलं समागता सौम्याङ्गना
     उषा व्याकोषारविन्द-लोचना
     वैदेही-दर्शनाभिलाषं वहन्ती स्व-हृदये,
     पल्लव-कर-द्वये
     नीहार-मौक्तिक-प्रकरोपहारं दधाना
     सती-निलय-बहिरङ्गणे विद्यमाना
     अभाषत कोकिल-कण्ठस्वना सूनरी,
     ‘दर्शनं देहि  सति !  प्रभाता विभावरी’ ॥’   
         (तपस्विनी, ४/१, पृ. ९६)
   दशम-सर्गे प्रसङ्ग-क्रमेण महाकाव्यस्य करुण-प्रधानत्वं सूचितमस्ति । ओड़िआ-मूलं पद्यमेवंरूपम्,
           ‘रस-रत्नमय  काव्य-शिखरी,  
           बिराजन्ति य़हिँ  राम-केशरी ।
           राबण-बारण- रकत-धार,   
           बहइ झर्झर  निर्झराकार ।
          कान्दन्ति,   सिंही कन्दरे रहि ।  
          दन्ति-दन्ताघात- बेदना सहि ॥’  (तपस्विनी १०/१८)    
                      
  हरेकृष्ण-मेहेरस्य संस्कृतानुवादे स्वकीय-पद-शैल्या प्रस्तुतं पद्यमिदम्,
   ‘रस-रत्न-परिपूर्णः  काव्य-पर्वतो वर्त्तते,
   श्रीरामचन्द्र-मृगेन्द्रो यत्र विराजते ।
   दशकन्धर-सिन्धुरस्य रुधिर-धारा,
   प्रवहति झर्झरं निर्झरिणी ।
   क्रन्दति  तद्-गिरि-कन्दरागारा,
   विषह्य दन्ताबल-दन्ताघात-क्लेशं केशरिणी ॥’ 
             (तपस्विनी, १०/१८, पृ. २१०) 
     अनुवादेऽपि मूलभाव-सुरक्षा-समेता स्वीय- नूतन-पद-संयोजना कवि-हरेकृष्ण-मेहेरस्य प्रतिभायाः मौलिकतां प्रतिपादयति । मुक्तच्छन्दोधारया सह पदेषु व्यवहितम् अव्यवहितं च उपधा-मिलनं नूनं प्रणिधेयमत्र महाकाव्ये । अस्य निदर्शनं प्रोक्तमुदाहरणम् । प्रबन्ध-विस्तर-भयाद् अधिकवर्णनमत्र न प्रस्तूयते ।
उपसंहारः : 
      कविः हरेकृष्ण-मेहेरः साम्प्रतिक-संस्कृत-वाङ्मये विशेषतः काव्य-साहित्ये स्वकीय-काव्यगुण-दृष्ट्या स्वतन्त्र-प्रतिष्ठां लभते । कवेः काव्यानां विषये आलोचनाचक्रेषु गवेषणा-ग्रन्थादिषु च चर्चा कृता उपलभ्यते । कवेः कतिपयाः कृतयः पुस्तकरूपेण प्रकाशिताः सन्ति । नैषध-महाकाव्ये दार्शनिक-प्रतिफलन-विषयकः तस्य शोध-ग्रन्थः नूनं प्रशंसार्हः ।  आधुनिके विज्ञानयुगे अन्तर्जालेषु कवेः कृतीनां लेखाः प्रसारिताश्च  विलोक्यन्ते । संस्कृतभाषायाः तस्याः साहित्ये च आधुनिक-प्रयोगप्रसार-विषयेषु कवेः हरेकृष्णस्य विशिष्टमवदानं विद्यते । तस्य काव्य-कृतिषु पारम्परिकता-सहिता आधुनिक-दृष्टिभङ्गी राजते, नूतनत्वं मौलिकत्वं च दीप्यते । प्राणिजीवनस्य विभिन्नाः समस्याः तत्समाधानादिकाः विषयाश्च  निजस्व- माधुर्यपूर्ण- मनोहारि-पदावली-माध्यमेन तस्य काव्येषु समुपन्यस्ताः । भारतीय-प्राच्यसंस्कृतेः गौरवं तेषु सम्यक् प्रतिफलितम् ।               
     कवेः हरेकृष्ण-मेहेरस्य बहुमुखी प्रतिभा नूतन-पुरातन-समन्वयेन सम्प्रसारिता लक्ष्यते । तस्य सुकुमार-भव्य-काव्य-कौशलेन कलामयी लीलावती सुरभारती सुतरां सुप्रसन्ना सुदीप्ता च भ्राजते । आधुनिक-संस्कृत-साहित्य-परिधौ तस्य मेहेर-कवेः काव्य-कविताः सफलार्थाः नितरामुपादेयाः सुधीभिः समादरणीयाश्च विभान्ति । 
* * * * 
सहायक-ग्रन्थादि-सूची :
(१) ‘मातृगीतिकाञ्जलिः’ (आधुनिक- संस्कृत-गीतिकाव्यम्), डॉ. हरेकृष्ण-मेहेरः,    
        कलाहाण्डि लेखक कला परिषद्,  भवानीपाटना, १९९७.
(२) ‘तपस्विनी’ (कवि-गङ्गाधरमेहेर-प्रणीतस्य ओड़िआ-महाकाव्यस्य सम्पूर्ण-हिन्दी-पद्यानुवादः)
        अनुवादक : डॉ. हरेकृष्ण-मेहेर,    सम्बलपुर-विश्वविद्यालय, सम्बलपुर, २०००.
(३) ‘तपस्विनी’ (कवि-गङ्गाधरमेहेर-प्रणीतस्य ओड़िआ-महाकाव्यस्य सम्पूर्ण-संस्कृतानुवादः)
       अनुवादक:  डॉ. हरेकृष्ण-मेहेरः,
       परिमल-पब्लिकेशन्स्, २७/२८, शक्तिनगरम्, दिल्ली-७, २०१२.
(४) ‘मातृगीतिकाञ्जलिः -‘भारत-भारतीर महनीय  उदात्त गान’ (समीक्षक: डॉ. नबकिशोर-मिश्रः) 
      ‘’बर्त्तिका’ अप्रेल्-जून् १९९९, पृ. ५०१-५०८. दशरथपुर, याजपुर, ओड़िशा.
(५) ‘तपस्विनी महाकाव्यम् : हरेकृष्ण-मेहेर   (समीक्षक: डॉ. नबकिशोर-मिश्रः) ‘’बर्त्तिका’
      दशहरा-बिशेषाङ्क, अक्टोबर-डिसेम्बर  २०१२, पृ. १४५०-१४५४, याजपुर, ओड़िशा. 
(६) ‘आधुनिकता एवं समीक्षा : कुछ अपनी बातें’ (लेख: डॉ. हरेकृष्ण-मेहेर)
       ‘दृक्’ अङ्क-११, २०१२,  दृग्-भारती, योजना-३, इलाहाबाद. 
(७) ‘अन्धानुसन्धानम्’ (हरेकृष्ण-मेहेरः), ‘संस्कृत-मञ्जरी’, अप्रैल्-जून् २००७,
       दिल्ली संस्कृत अकादेमी,  नवदिल्ली-५. 
(८) ‘प्रदर्शनम्’ (डॉ. हरेकृष्ण-मेहेरः) ‘संस्कृत-मञ्जरी’, अक्तूबर-दिसम्बर २००८,  पृ.२२-२४,
      दिल्ली संस्कृत अकादेमी, नवदिल्ली-५. 
(९) ‘जीवन-दशकम्’  (डॉ. हरेकृष्ण-मेहेरः), ‘संस्कृतमञ्जरी’, ४/१, जुलाई-सितम्बर २००५, 
       पृ.२२-२६, दिल्ली संस्कृत अकादेमी.   
(१०) ‘सत्यम्’ (डॉ. हरेकृष्ण-मेहेरः) लोकभाषासुश्रीः’ अगस्त-सेप्टेम्बर २००५, पुरी. 
(११) ‘भावना’ (हरेकृष्णमेहेरः) ‘संस्कृतमञ्जरी’, १०/२, भावना-विशेषाङ्कः,२०००,
        दिल्ली संस्कृत अकादेमी, नवदिल्ली-५. 
(१२) ‘महौषधम्’  (हरेकृष्ण-मेहेरः)
        ‘अर्वाचीन-संस्कृतम्’, अप्रेल २००४- जनवरी २००५, देववाणी परिषद्, दिल्ली.
(१३) ‘मौन-व्यञ्जना’ (डॉ. हरेकृष्ण-मेहेरः) ‘लोकभाषासुश्रीः’, फेब्रुआरी-मार्च, २००६, पुरी.
(१४) ‘संस्कृति-गीतिका’ (डॉ. हरेकृष्ण-मेहेरः)
         ‘पद्यबन्धा’ अङ्क-१, २०१२, वीणापाणि-संस्कृत-पीठम्, भोपालम्.
(१५) ‘वर्षा’ (कविवर-राधानाथराय-कृतायाः ओड़िआ-कवितायाः संस्कृतानुवादकः डॉ. हरेकृष्ण-मेहेरः)  
        ‘लोकसुश्रीः’ अक्टोबर-नवेम्बर २००६, लोकभाषा-प्रचारसमितिः, पुरी. 
(१६) ‘प्रियमिलनम्’ (डॉ. हरेकृष्ण-मेहेरः)  ‘संगीत’, सितम्बर- २००४,  हाथरस, उत्तरप्रदेश. 
(१७) ‘कुहू-कुहू-कूजनम्’ ( डॉ. हरेकृष्ण-मेहेरः)  ‘संगीत’, जून्-२००५, संगीत कार्यालय, हाथरस. 
(१८) ‘पुष्पाञ्जलि-विचित्रा’,  (१९) ‘जीवनालेख्यम्’,  (२०) ‘मौन-व्यञ्जना’,
(२१) ‘उत्कलीय-सत्कला’,  (२२) ‘सूक्ति-कस्तूरिका’,  (२३) ‘स्तवार्चनस्तवकम्’, 
(२४) ‘हासितास्या वयस्या’  (हरेकृष्ण-मेहेरः).
(२५)  ‘दृक्’, अङ्क-१७, २००७, इलाहाबाद. 
(२६)  ‘Matrigitikanjalih’ discussed in the article  
           “ARVACHEENA-SANSKRITA-SAHITYA- SARVEKSHANAM (1997-98)” 
          By Dr. Ramakant Shukla in ‘Arvacheena- Sanskritam’, Vol-24/4, Oct. 2002,
          pp. 27 and 42, Devavani Parishad, Delhi. 
(२७)   Musical Notation (Swara-Lipi) of Sanskrit Lyric ‘Nava-Varsha Gitika’ 
(Subham Bhavatu Navavarsham) from ‘Matrigitikanjalih’ Kavya.
(Music composed by: Pandit H. Harendra Joshi, Ratlam, Madhya Pradesh),
“SANGEET”, December 1999, pp. 13-20, Hathras, U. P.
(Subham Bhavatu Navavarsham) from ‘Matrigitikanjalih’ Kavya.
(Music composed by: Pandit H. Harendra Joshi, Ratlam, Madhya Pradesh),
“SANGEET”, December 1999, pp. 13-20, Hathras, U. P.
(२८)    Article ‘Mātṛgītikāñjaliḥ –  Ᾱdhunika-Gītikāvyam’ By:  Dr. Harsh Dev Madhav 
          in  pp. 56-57  of his Sanskrit Book “Nakha-Darpaṇaḥ” (Modern Criticism of 
Contemporary Sanskrit Literature),
Publisher: Vani Akademi, Chandkheda, Gujarat, 2008.
Contemporary Sanskrit Literature),
Publisher: Vani Akademi, Chandkheda, Gujarat, 2008.
(२९)   ‘STATUS OF SANSKRIT STUDIES IN ORISSA’  By Prof. H.K.Satapathy, 
included in 'Sanskrit Studies in India’,
Shri Lal Bahadur Shastri Rastriya Sanskrit Vidyapeetha, New Delhi-9, 2001.
included in 'Sanskrit Studies in India’,
Shri Lal Bahadur Shastri Rastriya Sanskrit Vidyapeetha, New Delhi-9, 2001.
(३०) ‘Essays on Modern Sanskrit Poetry’  By Dr.Rabindra Kumar Panda,
           Bharatiya Kala Prakashan, Tri Nagar, Delhi-110035, 2009.
(३१) ‘Concept of Gīti and Matrigitikanjalih-Kavya: An Observation’,
            Article By : Prof. Abhiraj Rajendra Mishra,
           ‘Śraddhā’ (Research Journal) Vol.II, 2011, pp. 51-60,
            Published by: Post-Graduate Department of Sanskrit,
            Gangadhar Meher Autonomous College, Sambalpur, Odisha.  
* * * 
उपाचार्यः,  संस्कृत-विभागः,
गङ्गाधर-मेहेर-महाविद्यालयः, सम्बलपुरम् - ७६८००४,
ओड़िशा, भारतम्  ।  
 = = = = = = = 
Published in the Research Journal
‘ŚRADDHĀ’ (ISSN 2321-273X), Vol.III-IV, 2012 and 2013,
Post-Graduate Department of Sanskrit,
Gangadhar Meher Autonomous College, Sambalpur, Odisha.  

No comments:
Post a Comment